कवाटपाटनोड्डीनकोशोत्थारवघर्घरम् । लुण्ठितासङ्ख्यकौशेयप्रावृतारिभटोद्भटम्
क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् । राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम्
गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् । सहेमभारचौरौघपादाहतरुदच्छिशु
अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् । चौरहस्तच्युतानर्घरत्नदन्तुरमार्गदिक्
हयेभरथसङ्घट्टव्यग्रसामन्तमण्डलम् । अभिषेकोद्यमादेशपरमन्त्रिपुरस्सरम्
राजधानीविनिर्माणसानुस्थस्थपतीश्वरम् । कूपवातायनश्वभ्रनिपतद्राजवल्लभम्
जयशब्दशतोद्घोषसिन्धुराजन्यनिर्भरम् । असङ्ख्यनिजराजौघवृतसिन्धुकृतस्थितिम्
ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् । मण्डलान्तरसञ्जातनगरग्रामलुण्ठनम्
अनन्तचौर्यमौखर्यरुद्धमार्गगमागमम् । महानुभाववैधुर्यसनीहारदिनातपम्
मृतबन्धुजनाक्रन्दैर् श्रुततूर्यरवैर् अपि । हयेभरथशब्दैश् च पिण्डग्राह्यघनध्वनि
सिन्धुदेवो जयत्य् एकच्छत्त्रभूमण्डलाधिपः । इत्य् अनन्तरम् आरेमुर् भेर्यः प्रतिपुरं तदा
राजधानीं विवेशाथ सिन्धुर् उद्धतकन्धरः । प्रजास् स्रष्टुं युगस्यान्ते मनुर् जगद् इवापरः
प्रवृत्ता दशदिग्भ्यो ऽथ प्रवेष्टुं सैन्धवं पुरम् । नराः करिहयागारै रत्नपूरा इवाम्भुधिम्
निबन्धनानि चिह्नानि शासनानि दिशां प्रति । क्षणं निवेशयाम् आसुर् मण्डलं प्रति मन्त्रिणः
उदभूद् अचिरेणैव देशे देशे पुरे पुरे । जीविते मरणे माने नियमो यमतो यथा
अथ शेमुर् निमेषेण देशोपप्लवविभ्रमाः । प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा
सौम्यताम् आजगामाशु देशो दशदिगन्वितः । क्षीरोदः क्षुभितावर्तो द्राग् इवोद्वृत्तमन्दरः
ववुर् अलकचयान् विलोलयन्तो मुखकमलालिमुखानि सैन्धवीनाम् । जललववलनाकुलास् समीरा अशिवगुणा इव सर्वतः क्षणेन
एतस्मिन्न् अन्तरे लीला समुवाच सरस्वतीम् । श्वासावशेषम् आलोक्य पूर्वं भर्तारम् अग्रगम्
प्रवृत्तो देहम् उत्स्रष्टुं मद्भर्तायम् इहाम्बिके । स्थिता च मृतकल्पेयं लीला निस्स्पन्दगात्रिका
देहेनानेन गन्तव्यम् अनया वीरभार्यया । यत्रावाभ्यां च तत् स्थानं कथं गन्तव्यम् अम्बिके
एवंरूपमहारम्भे सङ्ग्रामे राष्ट्रसम्भ्रमे । संपन्ने ऽपि स्थिते ऽप्य् उच्चैर् विचित्रारम्भमन्थरे
न किञ्चिद् अपि संपन्नं राष्ट्रं न च महीतलम् । न स्थितं क्वचनाप्य् एवं स्वप्नात्मकम् इदं यतः
तस्य त्वन्मण्डपस्यान्तश् शवस्य निकटाम्बरे । इत्थं भूराष्ट्रम् आभाति भर्तृजीवस्य ते ऽनघे
अन्तःपुरगृहं ते तद् इदं राष्ट्रान्वितोदरम् । वसिष्ठविप्रगेहे ऽन्तश् शवगेहे जगत् स्थितम्
एवम् एष महारम्भो जगत्त्रयमयो भ्रमः । त्वया मयानयानेन संयुक्तस् सार्णवावनिः
गिरिग्रामकगेहे ऽन्तर् मध्ये गगनकोशके । खात्मावकचति व्यक्तो न कचत्य् एव वा क्वचित्
एवम् आरम्भघनयोर् अपि मण्डपयोस् तयोः । उदरे शून्यम् आकाशम् एवास्ति न जगद्भ्रमः
भ्रमद्रष्टुर् अभावे हि कीदृशी भ्रमता भ्रमे । नास्त्य् एव भ्रमसत्ता तु यद् अस्ति तद् अजं पदम्
भ्रमे दृश्यम् असत् तस्य द्रष्टुर् द्रष्टृदशा कुतः । द्रष्टृदृश्यक्रमाभावाद् अत्र यत् सहजं हि तत्