इत्य् उक्त्वा सा तदालोक्य भर्तृभावभयातुरा । लता परशुकृत्तेव मूर्छिता पतिता भुवि
विदूरथो ऽपि निर्जानुः प्रहरन्न् एव विद्विषि । पपात स्यन्दने ऽप्य् आशु छिन्नमूल इव द्रुमः
पतन्न् एवैष सूतेन रथेनैवापवाहितः । यदा तदाहतिं तस्य कण्ठे ऽदात् सिन्धुर् उद्धतः
अर्धविच्छिन्नकण्ठो ऽसाव् अनुयातो ऽथ सिन्धुना । स्यन्दनेनाविशत् सद्म पद्मम् एवेन्दिरा यथा
सरस्वतीप्रभावाढ्यं तत् प्रवेष्टुम् असौ गृहम् । नाशकन् मषको मत्तो महाज्वालान्तरं यथा
खड्गावकृत्तगलगर्तगलत्सवातरक्तच्छटाच्छुरितवस्त्रतनुत्रगात्रम् । तत्याज तं भगवतीम् अभितो गृहान्तस् सूतः प्रविश्य मृतितल्पतले गतारिम्
हतो राजा हतो राजा प्रतिराजेन संयुगे । इति शब्दे समुद्भूते राष्ट्रम् आसीद् भयाकुलम्
भाण्डोपस्करभाराढ्यविद्रवत्सकलप्रजम् । साक्रन्दार्तकलत्राढ्यद्रवन्नागरं दुर्गमम्
पलायमानसाक्रन्दमार्गाहृतवधूगणम् । अन्योऽन्यलुण्ठनव्यग्रलोकलग्नमहाहवम्
परराष्ट्रजनानीकताण्डवोल्लासनारवम् । निरधिष्ठितमातङ्गहयचारपतज्जनम्
कवाटपाटनोड्डीनकोशोत्थारवघर्घरम् । लुण्ठितासङ्ख्यकौशेयप्रावृतारिभटोद्भटम्
क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् । राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम्
गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् । सहेमभारचौरौघपादाहतरुदच्छिशु
अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् । चौरहस्तच्युतानर्घरत्नदन्तुरमार्गदिक्
हयेभरथसङ्घट्टव्यग्रसामन्तमण्डलम् । अभिषेकोद्यमादेशपरमन्त्रिपुरस्सरम्
राजधानीविनिर्माणसानुस्थस्थपतीश्वरम् । कूपवातायनश्वभ्रनिपतद्राजवल्लभम्
जयशब्दशतोद्घोषसिन्धुराजन्यनिर्भरम् । असङ्ख्यनिजराजौघवृतसिन्धुकृतस्थितिम्
ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् । मण्डलान्तरसञ्जातनगरग्रामलुण्ठनम्
अनन्तचौर्यमौखर्यरुद्धमार्गगमागमम् । महानुभाववैधुर्यसनीहारदिनातपम्
मृतबन्धुजनाक्रन्दैर् श्रुततूर्यरवैर् अपि । हयेभरथशब्दैश् च पिण्डग्राह्यघनध्वनि
सिन्धुदेवो जयत्य् एकच्छत्त्रभूमण्डलाधिपः । इत्य् अनन्तरम् आरेमुर् भेर्यः प्रतिपुरं तदा
राजधानीं विवेशाथ सिन्धुर् उद्धतकन्धरः । प्रजास् स्रष्टुं युगस्यान्ते मनुर् जगद् इवापरः
प्रवृत्ता दशदिग्भ्यो ऽथ प्रवेष्टुं सैन्धवं पुरम् । नराः करिहयागारै रत्नपूरा इवाम्भुधिम्
निबन्धनानि चिह्नानि शासनानि दिशां प्रति । क्षणं निवेशयाम् आसुर् मण्डलं प्रति मन्त्रिणः
उदभूद् अचिरेणैव देशे देशे पुरे पुरे । जीविते मरणे माने नियमो यमतो यथा
अथ शेमुर् निमेषेण देशोपप्लवविभ्रमाः । प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा
सौम्यताम् आजगामाशु देशो दशदिगन्वितः । क्षीरोदः क्षुभितावर्तो द्राग् इवोद्वृत्तमन्दरः
ववुर् अलकचयान् विलोलयन्तो मुखकमलालिमुखानि सैन्धवीनाम् । जललववलनाकुलास् समीरा अशिवगुणा इव सर्वतः क्षणेन
एतस्मिन्न् अन्तरे लीला समुवाच सरस्वतीम् । श्वासावशेषम् आलोक्य पूर्वं भर्तारम् अग्रगम्
प्रवृत्तो देहम् उत्स्रष्टुं मद्भर्तायम् इहाम्बिके । स्थिता च मृतकल्पेयं लीला निस्स्पन्दगात्रिका