शराम्बुराशिमथनमत्तमुद्गरमन्दरम् । गदावदलनोद्युक्तदुर्वाराद्रिनिभाशनि
ऋष्टिवृष्टिप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् । प्रासग्रसनसंरब्धप्रोद्यच्छङ्कुकृतान्तकम्
चक्रार्धचटितोच्चाद्रिवज्रविज्वरपर्वतम् । शङ्कुशङ्कितशूत्कारकाशिशूलशिलातलम्
भुसुण्डीभण्डितोद्दण्डभिण्डिपालोडुमण्डलम् । परशूलकरानेकपरशूलूकलङ्घितम्
वहत्कचक्रकचवच्छिन्नचञ्चुरचामरम् । स्फुटच्चटचटास्फोटत्रुट्यत्त्रिपथगारयम्
हेत्यश्रिचूर्णसंभारमहाभ्रमवितानकम् । अन्योऽन्यशस्त्रसंघट्टभ्रमज्ज्वालोल्लसत्तडित्
शब्दस्फुरद्विरिञ्चाण्डं घातभग्नकुलाचलम् । धारानिकृत्तशस्त्रौघम् अस्त्रयोर् युध्यमानयोः
सदस्त्रवारणेनैव यातः कालो बलात्मनः । स्वयं कियद्बल इति सिन्धौ तिष्ठति हेलया
विदूरथो ऽस्त्रम् आग्नेयं तत्याजाशनिशब्दवत् । ज्वालयाम् आस स रथं सिन्धोः कक्षम् इवारसम्
एतस्मिन्न् अन्तरे व्योम्नि हेतिनिर्विवरोदरे । स सन्नाह इव प्रावृट्पयोदपटिनीव वा
अस्त्रराजेक्षणं कृत्वा युद्धं परमदारुणं । अन्योऽन्यं शमम् आयातौ सवीर्यौ सुभटाव् इव
एतस्मिन्न् अन्तरे ऽस्त्राग्नी रथं कृत्वाशु भस्मसात् । प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रम् इव कन्दरात्
सिन्धुर् अभ्याशतो ऽग्न्यस्त्रं वारुणास्त्रेण शातयन् । रथं त्यक्त्वावनिं प्राप्य खड्गखेटकवान् अभूत्
अक्ष्णोर् निमेषमात्रेण रथाश्वानां रिपोः खुरान् । लुलाव करवालेन मृणालानीव लाघवात्
विदूरथो ऽपि विरथो बभूव खेटकासिमान् । समायुधौ समोत्साहौ चेरतुर् मण्डलान्वितौ
खड्गौ क्रकचतां यातौ मिथः प्रहरतोस् तयोः । दन्तमालेयम् अस्येव चलेचर्चयतः प्रजाः
शक्तिम् आदाय चिक्षेप खड्गं त्यक्त्वा विदूरथः । सिन्धाव् उद्घर्घरारावं महोत्पात इवाशनिम्
अविच्छिन्नं समायान्ती पतिता सास्य वक्षसि । अप्रियस्य यथा भर्तुर् अनिच्छन्ती स्वकामिनी
तेन शक्तिप्रहारेण नासौ मरणम् आप्तवान् । केवलं रुधिरस्रोतो नागो जलम् इवात्यजत्
तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना । सविकासा घनानन्दा पूर्वलीलाम् उवाच ह
देवि पश्य नृसिंहेन हतो भर्तायम् आवयोः । शक्तिकोटिनखैर् दैत्यस् सिन्धुर् उद्धुरकन्धरः
सरस्तलस्थनागेन्द्रवरहूङ्कृतवारिवत् । दिष्ट्योरस्य् अस्य निर्याति रक्तं शुलुशुलारवैः
हा कष्टं रथम् आनीतं सिन्धुर् आरोढुम् उद्यतः । सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा
पश्य देवि रथो ऽस्यासौ मुद्गरेणावचूर्णितः । भ्रमत्पर्वतपातेन सौवर्णं नगरं यथा
प्रवृत्तो रथम् आनीतम् आरोढुं पतिर् एष मे । कष्टं वज्रम् इवेन्द्रेण मुसुलं सिन्धुनेरितम्
वञ्चयित्वा विलासेन रथम् आरुह्य लाघवात् । पश्य भर्ता मदीयो ऽसौ चकास्ति नितरां रणे
हा धिक् कष्टम् असौ सिन्धुर् आर्यपुत्ररथं बलात् । हरिश् श्वभ्रम् इवरूढः प्लवेनोन्तर् इव द्रुमम्
खड्गेनारोहतो ऽस्यांसच्छिन्नो भर्ता विलोकय । पद्मरागगिरिर् द्योतम् इव मुञ्चति शोणितम्
हा हा धिक् कष्टम् एतेन सिन्धुना खड्गधारया । जङ्घयोर् मे पतिश् छिन्नः क्रकचेनेव पादपः
हा हा हतास्मि दग्धास्मि मृतास्म्य् अपहतास्मि च । मृणाले इव लूने मे पत्युर् द्वे अपि जानुनी