तया पिशाचसैन्यं तत् परसैन्ये न्ययोजयत् । ततस् स्वसैनिकास् स्वस्थाः परयोधाः पिशाचिनः
तस्याथ रूपिकास्त्रं तद् ददौ चान्यद् असौ रुषा । उदगुर् भूतलाद् व्योम्नो रूपिकास् स्तब्धमूर्धजाः
निर्नग्ना विकरालाक्ष्यो लम्बश्रोणिपयोधराः । उद्भिन्नयौवना वृद्धाः पीवराङ्ग्यो ऽथ जर्जराः
स्वरूपारूपजघना दुर्नाट्यविकसद्भगाः । नरपद्मशिरोहस्ता रुधिरारुणगात्रकाः
अर्धचर्वितमांसासृक्स्रवत्सृक्वाक्तलालनाः । नानानानाङ्गवलनाननोन्नमनसन्नमाः
सिरालभुजवक्त्रोरुकुचपार्श्वकराङ्गिकाः । ताडीकृतार्भकशवाद् अनुकृष्टान्त्ररज्जवः
श्वकाकोलूकवदना निम्नवक्त्रहनूदराः । जगृहुस् ताः पिशाचांस् तान् दुर्बलान् दुश्शिशून् इव
पिशाचरूपिकासैन्यं तदासीद् एकतां गतम् । निर्नग्नं नर्तनोत्तानवदनाङ्गविलोचनम्
परस्पराक्रान्तिकरं भीषयंश् च परस्परम् । निष्कासितमहाजिह्वं नानामुखविकारदम्
शवभाराढ्यम् अन्योऽन्यं ह्रियमाणशवाङ्गकम् । रुधिराम्भसि मज्जत् तदुन्मज्जच् च लसत्तनु
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् । रक्तमांसवसापङ्केष्व् अन्योऽन्यं वेल्लनात्म तत्
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् । यथैव मायासञ्चारस् तेन तस्य कृतः पुनः
तेनापि तस्याशु तथा कृतो बुद्ध्वाशु लाघवम् । वेतालास्त्रं ततो दत्तं तेनोत्तस्थुश् शवव्रजाः
अमूर्धानस् समूर्धानो वेतालावेशवल्गिताः । ततः पिशाचवेतालरूपिकौघकबन्धवत्
उद्बभूव बलं भीमम् ऊर्वीनिगरणक्षमम् । अथेतरो ऽपि भूपालो मायां सञ्चार्य चापराम्
राक्षसास्त्रं ससर्जाशु त्रैलोक्याक्रमणोन्मुखम् । उदगुः पर्वताकारास् सर्वतस् स्थूलराक्षसाः
देहम् आश्रित्य निष्क्रान्ताः पातालान् नरका इव । अथाभूत् तद् बलं भीमं ससुरासुरभीतिदम्
गर्जद्रक्षोमहाम्भोदवाद्यनृत्यत्कबन्धकम् । रूपिकादारिकारूपं पिशाचस्थानसुस्थिति
आत्तक्वणितवंशाढ्यं शिरः पद्मोत्कराकुलम् । लोलान्त्रमालावलितं रुधिराम्बुसमुक्षितम्
वेतालतालसोल्लासं लसद्धाम पिशाचकम् । मेदोमांसवसाद्याढ्यं रुधिरासवसुन्दरम् । क्षीबवेतालकुम्भाण्डयक्षताण्डवसङ्कटम्
कुम्भाण्डकोत्ताण्डवदण्डपादक्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः । सन्ध्याभ्रधारोत्करकोटिकान्तैर् भूतैर् असृक्स्रोतसि दत्तसेतु
तस्मिंस् तदा वर्तमाने घोरे सम्रम्भविभ्रमे । सर्वारिसैन्यनाशार्थम् एकस् स्वबलशान्तये
सस्मार स्मृतिमान् अन्तर् अनन्तोदारधैर्यभृत् । अस्त्रम् अस्त्रेश्वरं श्रीमद् वैष्णवं शङ्करोपमम्
अथ यो ऽसौ शरस् तेन वैष्णवास्त्राभिमन्त्रितः । मुक्तस् तस्य फलप्रान्ताद् उल्मुकानीव निर्ययुः
पङ्क्तयस् स्फारचक्राणां शतार्कीकृतदिक्तटाः । गदानाम् अभियान्तीनां शतवंशीकृताम्बराः
वज्राणाम् उरुधाराणां शरच्छृङ्गीकृताम्बराः । पट्टिसानां च पट्टानां तीरवृक्षीकृताम्बराः
अथ राजा द्वितीयो ऽपि वैष्णवास्त्रप्रशान्तये । ददौ वैष्णवम् एवास्त्रं शस्त्रनिष्ठीवपूरकम्
ततो ऽपि निर्ययुर् नद्यो हेतीनां हतहेतयः । शरशक्तिगदाप्रासपट्टिसादिपयोरयाः
शस्त्रास्त्रसरितां तासां व्योम्नि युद्धम् अवर्तत । रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम्
शरशातितशूलाश्रिखड्गाकुट्टितपट्टिसम् । सुप्रासप्रहतप्रासं शूलशातितशक्तिकम्