तेनोदगुः पिशाचानां पङ्क्तयो ऽनन्तभीतिदाः । सन्ध्यायाम् इव भीत्येव दिवसश् श्यामतां ययौ
पिशाचा भुवनं जह्रुर् अन्धकारभरा इव । भास्मनस्तम्भसदृशास् तालोत्तालविलासिनः
दृश्यमानमहाकारा मुष्टिग्राह्या नकिञ्चन । ऊर्ध्वकेशाः कृशाङ्गाश् च केचिच् च श्मश्रुला अपि
कृशाङ्गा मलिनाङ्गाश् च ग्राम्या इव नभश्चराः । सभायां मूढदृष्टाश् च यत्किञ्चनकराः खलाः
दीना बह्वाशिनः क्रूरा दीना ग्राम्यजना इव । तरुकर्दमरथ्यान्तश्शून्यगेहगृहाश् चलाः
लेलिहानाः प्रेतरूपाः कृष्णाङ्गाश् श्वपचा इव । जगृहुस् ते तदा मत्ता हतशिष्टम् अरेर् बलम्
आसन्नसैनिकास् तत्र वित्रस्तक्षुब्धचेतनाः । त्यक्तायुधतनुत्राणास् त्रस्तप्राणास् स्खलद्गमाः
नेत्रैर् अङ्गैर् मुखैः पादैर् विकारभयकारिणः । त्यक्तकौपीनवसना निर्नग्ना हसनोत्तराः
विष्ठां मूत्रं च कुर्वन्तस् स्थिरम् आरब्धनर्तनाः । पिशाचराजो राजानम् अथ यावद्विदूरथम्
समाक्रामति तावत् स मायां तां बुबुधे बुधः । पिशाचसङ्ग्रामकरीं मायां वेत्ति स भूमिपः
तया पिशाचसैन्यं तत् परसैन्ये न्ययोजयत् । ततस् स्वसैनिकास् स्वस्थाः परयोधाः पिशाचिनः
तस्याथ रूपिकास्त्रं तद् ददौ चान्यद् असौ रुषा । उदगुर् भूतलाद् व्योम्नो रूपिकास् स्तब्धमूर्धजाः
निर्नग्ना विकरालाक्ष्यो लम्बश्रोणिपयोधराः । उद्भिन्नयौवना वृद्धाः पीवराङ्ग्यो ऽथ जर्जराः
स्वरूपारूपजघना दुर्नाट्यविकसद्भगाः । नरपद्मशिरोहस्ता रुधिरारुणगात्रकाः
अर्धचर्वितमांसासृक्स्रवत्सृक्वाक्तलालनाः । नानानानाङ्गवलनाननोन्नमनसन्नमाः
सिरालभुजवक्त्रोरुकुचपार्श्वकराङ्गिकाः । ताडीकृतार्भकशवाद् अनुकृष्टान्त्ररज्जवः
श्वकाकोलूकवदना निम्नवक्त्रहनूदराः । जगृहुस् ताः पिशाचांस् तान् दुर्बलान् दुश्शिशून् इव
पिशाचरूपिकासैन्यं तदासीद् एकतां गतम् । निर्नग्नं नर्तनोत्तानवदनाङ्गविलोचनम्
परस्पराक्रान्तिकरं भीषयंश् च परस्परम् । निष्कासितमहाजिह्वं नानामुखविकारदम्
शवभाराढ्यम् अन्योऽन्यं ह्रियमाणशवाङ्गकम् । रुधिराम्भसि मज्जत् तदुन्मज्जच् च लसत्तनु
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् । रक्तमांसवसापङ्केष्व् अन्योऽन्यं वेल्लनात्म तत्
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् । यथैव मायासञ्चारस् तेन तस्य कृतः पुनः
तेनापि तस्याशु तथा कृतो बुद्ध्वाशु लाघवम् । वेतालास्त्रं ततो दत्तं तेनोत्तस्थुश् शवव्रजाः
अमूर्धानस् समूर्धानो वेतालावेशवल्गिताः । ततः पिशाचवेतालरूपिकौघकबन्धवत्
उद्बभूव बलं भीमम् ऊर्वीनिगरणक्षमम् । अथेतरो ऽपि भूपालो मायां सञ्चार्य चापराम्
राक्षसास्त्रं ससर्जाशु त्रैलोक्याक्रमणोन्मुखम् । उदगुः पर्वताकारास् सर्वतस् स्थूलराक्षसाः
देहम् आश्रित्य निष्क्रान्ताः पातालान् नरका इव । अथाभूत् तद् बलं भीमं ससुरासुरभीतिदम्
गर्जद्रक्षोमहाम्भोदवाद्यनृत्यत्कबन्धकम् । रूपिकादारिकारूपं पिशाचस्थानसुस्थिति
आत्तक्वणितवंशाढ्यं शिरः पद्मोत्कराकुलम् । लोलान्त्रमालावलितं रुधिराम्बुसमुक्षितम्
वेतालतालसोल्लासं लसद्धाम पिशाचकम् । मेदोमांसवसाद्याढ्यं रुधिरासवसुन्दरम् । क्षीबवेतालकुम्भाण्डयक्षताण्डवसङ्कटम्