एवंविधान् अस्त्रमोहान् विरुद्धान् एव नेतरे । मिथो मायामयान् अग्रे पश्यन्त्य् अनुभवन्ति च
हेतिभारवहास् सिन्धोश् चक्ररक्षास् ततो ऽम्भसा । तृणानीव गताः प्रोह्य रथश् चास्याभवत् प्लुतः
एतस्मिन्न् अन्तरे सिन्धुर् अस्त्रं सस्मार शोषणम् । आपत्त्राणकरं देवं ददौ च शररूपिणम्
शशामाम्बुमयी माया तेन यामेव भास्वता । ये मृतास् ते मृता एव बभूवुश् शोषिता भुवः
अथ मूर्खरुषा तुल्यतापस् सन्तापयन् प्रजाः । जजृम्भे जर्जराजीर्णवनविस्तारकर्कशः
कचत्कनकनिष्ष्यन्दसुन्दराङ्गच्छविर् दिशाम् । आसीद् राजवरस्त्रीणाम् इवाङ्गोपाङ्गसङ्गिनी
तेन घर्ममयीं मूर्छाम् आजग्मुस् तद्विरोधिनः । ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव
विदूरथो रणद्दीर्घतारक्रेङ्कारमानसम् । कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रम् अथादधे
उदगुः पङ्क्तयो ऽब्दानां यामिन्य इव सञ्चिताः । तमालविपिनोड्डीनसंरम्भारम्भमन्थराः
वासनावारिपूरेण गर्जनोद्दामसञ्चराः । मिहिकामन्थराशेषककुब्मण्डलकुण्डलाः
ववुर् आवलितासारा मेघाडम्बरभेदिनः । कीर्णशीकरनीहारहारोदारास् समीरणाः
प्रस्फुरुस् त्रस्तसौवर्णसर्पापसरणोपमाः । विद्युतो दिवि दैत्यस्त्रीकटाक्षवलना इव
जुघूर्णुर् गर्जनोच्छूनप्रतिश्रुद्घनकन्दराः । दिशश् चलितमातङ्गसिंहर्क्षवनघर्घराः
महामुसुलधाराभिः पेतुर् आसारवृष्टयः । कष्टटाङ्कारकठिनाः कृतान्तस्येव दृष्टयः
उदभूत् प्रथमं बाष्प उष्णोष्णो ऽद्रिनिभो भुवः । पातालाद् अभ्रवृन्दानां युद्धायेवाभ्रविभ्रमाः
ततो निमेषमात्रेण प्रशेमुर् मृगतृष्णिकाः । परबोधरसापूरैर् यथा संसारवासनाः
आसीत् पङ्काङ्कम् अखिलं भूमण्डलम् असञ्चरम् । पूरितः पूर्णधाराभिस् सिन्धुस् सिन्धुम् इवाम्बुना
वायव्यम् अस्त्रम् असृजद् घूर्णिताकाशकोटरम् । कल्पान्तनृत्तसंपन्नरणद्भैरवभीषणम्
ववुर् अशनिनिपातपिण्डिताङ्गा दलितशिलाशकलाः ककुम्मुखेषु । प्रलयसमयसूचका भटानां कृतकटुटाङ्कृतटङ्किनस् समीराः
ववुर् वलितनीहारा विकीर्णघनपल्लवाः । वायवो धूतवृक्षौघाः पतनोत्पाटनोद्भटाः
विकुट्टिताटवीषण्डाश् श्वभ्रभित्तिविभेदिनः । तेनातिभीमवातेन विदूरथरथो ऽप्य् अथ
उह्यमानो ऽभवन् नद्या यथा जर्जरपल्लवः । विदूरथो ऽथ तत्याज पर्वतास्त्रं महास्त्रवित्
व्योमापि घनतां येन समाधातुम् इवोद्यतम् । तेन शैलास्त्रघातेन विरराम समीरणः
शमं च तेन शान्तेन प्रययौ वायुना यतः । अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि
नानाजनाशनव्यूहे काकानाम् इव कोटयः । शेमुश् शीत्कारडक्कारभाक्कारोक्कारका दिशाम्
प्रलापा इव विध्वस्तप्रथाः पवनवीरुधाम् । गिरीन् अपश्यन् नभसः पततः पर्णपत्त्रवत्
सिन्धुस् सिन्धुर् इवोत्पन्नान् मैनाकादीन् इतस् ततः । वज्रास्त्रम् असृजद् दीप्तं तेरुर् वज्रघनास् ततः
पिबन्तो ऽद्रीन् प्रतिगिरं वह्निदाहाद् इवाग्नयः । ते गिरीणां पुरीणां च कोटितुण्डावखण्डनैः
शिरांसि शातयाम् आसुः फलानीवोल्बनानिलाः । विदूरथो ऽथ वज्रास्त्रशान्त्यै ब्रह्मास्त्रम् अभ्यदात्
ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशमम् आगते । श्यामाश्यामं पिशाचास्त्रम् अथ सिन्धुर् अचोदयत्