वज्रभीत्येव पक्षाढ्यं पर्वतप्रकरं पुनः । स्वप्नदृष्टं जगद् इव सङ्कल्पपुरपूरवत्
ततस् तमोऽस्त्रम् असृजत् सिन्धुर् अन्धान्धकारदम् । तेनान्धकारो ववृधे कृष्णाभ्रजठरोपमः
रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् । मत्स्या इवाभवञ् शैलास् ताराश् च मणयो ऽभवन्
अन्धकारः प्रववृधे मषीपङ्कार्णवोपमः । कज्जलाचलसम्भारो धुतः कल्पान्तरैर् अपि
अन्धकूपे निपतिता इवासन् सकलाः प्रजाः । कल्पान्त इव संशेमुर् व्यवहारा दिशां प्रति
विदूरथो ऽथ मार्ताण्डम् अस्त्रं ब्रह्माण्डमण्डपे । ददाव् अस्त्रविदां श्रेष्ठः पुष्टमन्त्रविचेष्टितः
अथोदितस् तमोऽम्भोधिम् अर्कागस्त्यो गभस्तिभिः । अपिबत् कृष्णम् अम्भोदं शरत्काल इवामलः
अन्धकाराम्बरोन्मुक्ता विरेजुर् अमला दिशः । भूपतेः पुरतः कान्ता इव रम्यपयोधराः
ययुः प्रकटताम् अन्तर् अखिला वनराजयः । लोभकज्जलजालेन मुक्ता इव सतां धियः
अथ कोपाकुलस् सिन्धू राक्षसास्त्रं महाभयम् । क्षणाद् उदीरयाम् आस मन्त्रोदितशरात्मकम्
उदगुर् भीषणा दिग्भ्यस् सरुषो वनराक्षसाः । पातालगजहूङ्कारक्षुब्धा इव महार्णवाः
कपिलोर्ध्वजटाधूम्रास् स्फुटच्चटचटारवाः । अग्नयो लेलिहानोग्रजिह्वा अर्द्रेन्धना इव
सावर्तवृत्तयो व्योम्नि भीमडक्कारटाङ्कृताः । अग्निदाहमहाधूमविपुला इव सोल्मुकाः
दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्कजदेहकाः । उत्थिता लोमनिर्यातदुष्प्रज्वालजटा इव
निगिरन्तः प्रधावन्तो गर्जन्तस् तर्जिताशयाः । जटोज्ज्वालितडित्पुञ्जजलदास् सजला इव
एतस्मिन्न् अन्तरे तस्मिंल् लीलानाथो विदूरथः । नारायणास्त्रं प्रददौ दुष्टभूतनिवारणम्
उदीर्यमाण एवास्मिन्न् अस्त्रराजे तु राजयः । राक्षसानां प्रशेमुस् ता अन्धकारा इवोदये
प्रमृष्टराक्षसानीकम् अभवद् भुवनत्रयम् । शरदीव गताम्भोदं व्योम निर्मलम् आबभौ
अथ सिन्धुर् मुमोचास्त्रम् आग्नेयं ज्वलिताम्बरम् । जज्वलुः ककुभस् तेन कल्पाग्निवलिता इव
धूमाम्बुदभरच्छन्ना बभूवुस् सकला दिशः । गगनप्रोत्थपातालतिमिराकुलिता इव
बभुः प्रज्वालिताकारा गिरयः काञ्चना इव । प्रफुल्लनवनीरन्ध्रचण्पकौघवना इव
ययुर् व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् । कुङ्कुमेनोत्सवे मृत्योस् समालब्धा इवासृजा
ज्वलिता जनतान्तैकशङ्किनासन्नभस्स्पृशा । सहस्राकृतिनोर् वेणवलिता इव सागराः
जित्वा रिपुं पुनर् असौ यथा प्रहरते तथा । वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः
आययुस् सलिलापूरास् तमःपूरा इवाभितः । अधस्ताद् ऊर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः
भागा इव शरद्व्योम्नो द्रुतपाता इवाम्बुदाः । महार्णवा इवोर्ध्वस्थाः कुलशैलशिला इव
तमालौघा इवोड्डीनास् सञ्चिता इव रात्रयः । कज्जलौघा इवोद्धूता लोकालोक इवोत्तटः
रसातलगुहाभोगा इव व्योमदिदृक्षवः । महाघुरघुरारावरंहोबृंहितमूर्तयः
तापाग्निसन्ततिलतां सा चचामाम्बुसंहतिः । भुवनव्यापिनी सन्ध्याम् आशु कृष्णेव यामिनी
ताम् अग्निसन्ततिं पीत्वा पूरयाम् आस भूतलम् । जलश्रीस् सन्ततं देहं निर्द्रवव्यक्तिम् ईयुषी