तच् छरार्णवम् आमत्तम् अपिबत् सिन्धुवाडवः । शरोष्मणाप्य् अगम्येन जह्नुर् मन्दाकिनीम् इव
बाणवर्षेण सकलं सायकौघं घनं घनम् । भित्त्वा ततो ऽप्य् अधःकृत्वा चिक्षेप गगनार्णवे
यथा दीपस्य शान्तस्य न परिज्ञायते गतिः । तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः
तं छित्त्वा सायकासारं स्वशराम्बुधरं घनम् । व्योम्नि प्रसारयाम् आस सरच्छवशवान्वितम्
विदूरथस् तम् अप्य् आशु व्यधमत् सायकोत्तमैः । सामान्यजलदं मत्तकल्पान्तपवनो यथा
कृतप्रतिकृतैर् एवं बाणवर्षैर् महीपती । व्यर्थीकृतैर् अनयतां प्रहारम् अविरामिणौ
अथाददे मोहनास्त्रं सिन्धुर् गन्धर्वसौहृदात् । प्राप्तं तेन ययुर् लोका विना मोहं विदूरथम्
न्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः । मृता इवाभवन् योधाश् चित्रन्यस्ता इवाथवा
यावद् विदूरथरथो मोहेनायाति मन्दताम् । तावद् विदूरथो राजा प्रबोधास्त्रम् उपादधे
ततः प्रबोधम् आपन्ना प्रजा प्रातर् इवाब्जिनी । विदूरथे ऽभवत् सिन्धुः क्रुद्धोत्क इव राक्षसे
नागास्त्रम् आदधे भीमं पाशबन्धनखेददम् । तेनाभवन् नभो व्याप्तं भोगिभिः पर्वतोपमैः
सर्पैर् विवलिता भूमिर् मृणालैस् सरसी यथा । सम्पन्ना गिरयस् सर्वे कृष्णपन्नगकम्बलाः
पदार्थास् सर्व एवेमे पिहिता अहिविग्रहैः । सपर्वतवनाभोगा ययौ विवशतां मही
धूताङ्गारकणाकीर्णा विषवेगस्य शंसिनी । ववुर् उष्णोष्णनीहारा वातज्वलनरेणवः
विदूरथो ऽथ सौपर्णम् आदधे ऽस्त्रं महास्त्रवित् । उदगुर् गरुडास् तेन सौवर्णा इव पर्वताः
काञ्चनीकृतसर्वाशास् सर्वाशपरिपूरकाः । पक्षपर्वतसंरम्भजनितप्रलयानिलाः
घोणाविवलनाकृष्टश्वसद्भुजगमण्डलाः । महाघरघरारावपूरिताम्भोदषण्डकाः
भूपूरकं तु सर्पौघं स सुपर्णघनो ऽपिबत् । कृष्टं शलशलायन्तम् अगस्त्य इव वारिधिम्
सर्पकम्बलनिर्मुक्तं भूमण्डलम् अराजत । विशालम् इव नीरन्ध्रम् इव निर्वारि राशि वा
ततस् तद्गरुडानीकं क्वाप्य् अगच्छद् अदृश्यताम् । दीपौघ इव वातेन शरदीवाभ्रमण्डलम्
वज्रभीत्येव पक्षाढ्यं पर्वतप्रकरं पुनः । स्वप्नदृष्टं जगद् इव सङ्कल्पपुरपूरवत्
ततस् तमोऽस्त्रम् असृजत् सिन्धुर् अन्धान्धकारदम् । तेनान्धकारो ववृधे कृष्णाभ्रजठरोपमः
रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् । मत्स्या इवाभवञ् शैलास् ताराश् च मणयो ऽभवन्
अन्धकारः प्रववृधे मषीपङ्कार्णवोपमः । कज्जलाचलसम्भारो धुतः कल्पान्तरैर् अपि
अन्धकूपे निपतिता इवासन् सकलाः प्रजाः । कल्पान्त इव संशेमुर् व्यवहारा दिशां प्रति
विदूरथो ऽथ मार्ताण्डम् अस्त्रं ब्रह्माण्डमण्डपे । ददाव् अस्त्रविदां श्रेष्ठः पुष्टमन्त्रविचेष्टितः
अथोदितस् तमोऽम्भोधिम् अर्कागस्त्यो गभस्तिभिः । अपिबत् कृष्णम् अम्भोदं शरत्काल इवामलः
अन्धकाराम्बरोन्मुक्ता विरेजुर् अमला दिशः । भूपतेः पुरतः कान्ता इव रम्यपयोधराः
ययुः प्रकटताम् अन्तर् अखिला वनराजयः । लोभकज्जलजालेन मुक्ता इव सतां धियः
अथ कोपाकुलस् सिन्धू राक्षसास्त्रं महाभयम् । क्षणाद् उदीरयाम् आस मन्त्रोदितशरात्मकम्