केचिच् छक्तिमुखा बाणाः केचित् क्षुरमुखा अपि । केचित् कुन्तोग्रफलका अर्धचन्द्रमुखास् तथा
सिंहोपलमुखाः केचित् केचिच् छूलशिखामुखाः । त्रिशूलवदनाः केचित् स्थूला इव महाशिलाः
प्रलयपवनपातिताः शिलौघा इव विचरन्ति शिलीमुखास् तदा स्म । प्रमिलितम् अभवत् तयोस् तदानीं प्रलयविजृम्भितसिन्धुसंभ्रमेण
प्राप्य राजा पुरः प्राप्तं सिन्धुम् उद्धुरकन्धरम् । मध्याह्नतपनाभेन कोपेन विततो ऽभवत्
धनुर् आस्फालयाम् आस परिरावितदिङ्मुखम् । कल्पान्तपवनास्फोट इवामरगिरेस् तटम्
विससर्जोर्जितो राजा प्रातर् अर्कः करान् इव । तूणीररजनीबद्धाश् शिलीमुखपरम्पराः
एक एव विनिर्याति गुणात् तस्य शरो महान् । सहस्रं पतति व्योम्नि गच्छन् पतति लक्षशः
सिन्धोर् अपि तथैवासीच् छक्तिर् लाघवम् एव च । रवेर् आननसाम्यं वै विष्णोर् धानुष्कता तयोः
मुसुला नाम ते बाणा मुसुलाकृतयो ऽम्बरम् । छादयाम् आसुर् उन्नादाः कल्पान्तगिरयो यथा
रेजुः कनकनाराचराजयो व्योम्नि तस्य ताः । शरव्याः कल्पवातार्ताः पतन्त्य इव तारकाः
विदूरथाच् छरासारा अजस्रम् अभिनिर्ययुः । अब्धेर् इव पयःपूरास् सूर्याद् इव मरीचयः
प्रचण्डपवनोद्धूतपुष्पाणीव महातरोः । अयःपिण्डाद् इवोत्तप्तताडिताः कणपङ्क्तयः
धाराः पयोमुच इव शीकरा इव निर्झरात् । तत्पुराग्निमहादाहात् स्फुलिङ्गा इव भास्वराः
तयोश् चटचटास्फोटं शृण्वन् कोदण्डयोर् द्वयोः । बलद्वयम् अभूत् प्रेक्षामूकं शान्त इवाम्बुधिः
वहन्ति स्म शरापूरा गङ्गापूर इवाम्बरे । सिन्धोर् अभिमुखं यक्षघर्घरारवरंहसः
कचत्कनकनाराचशरवर्षाण्य् अनारतम् । वहच्छवशवाशब्दं निर्ययुर् धनुर् अम्बुदात्
बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे । वातायनात् तम् आलोक्य लीला तत्पुरवासिनी
तेन बाणसमूहेन जयम् आशङ्क्य भर्तरि । उवाच वाक्यम् आनन्दविकसन्मुखपङ्कजा
जय देवि जयत्य् एष नाथो ऽस्माकं विलोकय । किलानेन शरौघेन मेरुर् अप्य् एति चूर्णताम्
तस्याम् एवं वदन्त्यां तु घनस्नेहरवाकुलम् । प्रेक्षणव्यग्रयोर् देव्योर् हसन्त्योर् मानुषं हृदा
तच् छरार्णवम् आमत्तम् अपिबत् सिन्धुवाडवः । शरोष्मणाप्य् अगम्येन जह्नुर् मन्दाकिनीम् इव
बाणवर्षेण सकलं सायकौघं घनं घनम् । भित्त्वा ततो ऽप्य् अधःकृत्वा चिक्षेप गगनार्णवे
यथा दीपस्य शान्तस्य न परिज्ञायते गतिः । तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः
तं छित्त्वा सायकासारं स्वशराम्बुधरं घनम् । व्योम्नि प्रसारयाम् आस सरच्छवशवान्वितम्
विदूरथस् तम् अप्य् आशु व्यधमत् सायकोत्तमैः । सामान्यजलदं मत्तकल्पान्तपवनो यथा
कृतप्रतिकृतैर् एवं बाणवर्षैर् महीपती । व्यर्थीकृतैर् अनयतां प्रहारम् अविरामिणौ
अथाददे मोहनास्त्रं सिन्धुर् गन्धर्वसौहृदात् । प्राप्तं तेन ययुर् लोका विना मोहं विदूरथम्
न्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः । मृता इवाभवन् योधाश् चित्रन्यस्ता इवाथवा
यावद् विदूरथरथो मोहेनायाति मन्दताम् । तावद् विदूरथो राजा प्रबोधास्त्रम् उपादधे
ततः प्रबोधम् आपन्ना प्रजा प्रातर् इवाब्जिनी । विदूरथे ऽभवत् सिन्धुः क्रुद्धोत्क इव राक्षसे