रक्ताभास्थिरसन्ध्याढ्यं ससिद्धपुरुषं शवैः । हारैस् ससर्पनिर्मोकं पटैर् एवांशुसङ्कुलम्
लसल्लतापताकाभिर् ऊरुभिः कृततोरणम् । हस्तपादैः पल्लवितं शरैश् शरवनोपमम्
शस्त्रांशुशाद्वलश्यामं शस्त्रतार्णैस् ससैकतम् । कीर्णम् आयुधमालाभिर् उन्मत्तम् इव भैरवम्
फुल्लाशोकवनाकारं शस्त्रसंघट्टवह्निभिः । उद्घुङ्घुमं महाशब्दैर् विद्रवत्सिद्धनायकम्
सौवर्णरचिताकारं बालार्ककचितायुधैः । प्रासासिचक्रशक्त्यृष्टिमुद्गरारणितान्तरम्
एतस्मिन्न् अन्तरे सेनास् सर्वास् सङ्क्षयम् आययुः । आसीद् रणाङ्गनं शून्यम् इवाल्पोभयसैनिकम्
छिन्नभिन्नमृतध्वस्तयातविद्रुतमानवम् । पतच्छवमहाराशिपङ्कस्रवदसृक्सरित्
वहद्रक्तनदीरंहःप्रोह्यमानशवोत्करम् । भुसुण्डीशक्तिकुन्तासिस्थूलपाषाणसङ्कुलम्
शूरशस्त्राहतिच्छिन्नकबन्धपतनान्वितम् । तालताण्डविवेतालकुलारब्धकलारवम्
शून्ये रणाङ्गने दीप्तौ पद्मसिन्धुरथौ चलौ । अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ
चक्रशूलभुसुण्डर्ष्टिप्रासायुधसमाकुलौ । सहस्रेण सहस्रेण वीराणां परिवारितौ
विचरन्तौ यथाकामं मण्डले विततावनौ । सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ
तरन्तौ रक्तसरितो मत्तवारणलीलया । केशशेवलसञ्छन्नचक्ररक्तजलार्द्रकौ
वहच्चक्राहतिक्षोभपातिताकुलवारणौ । मणिमुक्ताझणत्काररणत्कूवरकोटरौ
वाताहतपताकाग्रपटत्पटपटारवौ । अनुयातौ महावीरैर् भूरिभिर् भीतसैनिकैः
भारान् दधद्भिः कुन्तानां शराणां धनुषाम् अपि । शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रुचा
तत्र तौ क्षणम् आवृत्य मण्डलैर् भूरिमण्डलैः । उभौ व्यतिबभूवाते संमुखाव् आयुधाम्बुदौ
नाराचधारानिकरविक्षेपकरकाघनौ । अन्योऽन्यम् अभिगर्जन्तौ मत्ताब्धिजलदाव् इव
तयोः प्रहरतोर् बाणान् वसुधा नरसिंहयोः । पाषाणमुसुलाकारा व्योमविस्तारिणो ऽभवन्
करवालफलाः केचिन् मुद्गराननकाः परे । शितचक्रमुखाः केचित् केचित् परशुवक्त्रकाः
केचिच् छक्तिमुखा बाणाः केचित् क्षुरमुखा अपि । केचित् कुन्तोग्रफलका अर्धचन्द्रमुखास् तथा
सिंहोपलमुखाः केचित् केचिच् छूलशिखामुखाः । त्रिशूलवदनाः केचित् स्थूला इव महाशिलाः
प्रलयपवनपातिताः शिलौघा इव विचरन्ति शिलीमुखास् तदा स्म । प्रमिलितम् अभवत् तयोस् तदानीं प्रलयविजृम्भितसिन्धुसंभ्रमेण
प्राप्य राजा पुरः प्राप्तं सिन्धुम् उद्धुरकन्धरम् । मध्याह्नतपनाभेन कोपेन विततो ऽभवत्
धनुर् आस्फालयाम् आस परिरावितदिङ्मुखम् । कल्पान्तपवनास्फोट इवामरगिरेस् तटम्
विससर्जोर्जितो राजा प्रातर् अर्कः करान् इव । तूणीररजनीबद्धाश् शिलीमुखपरम्पराः
एक एव विनिर्याति गुणात् तस्य शरो महान् । सहस्रं पतति व्योम्नि गच्छन् पतति लक्षशः
सिन्धोर् अपि तथैवासीच् छक्तिर् लाघवम् एव च । रवेर् आननसाम्यं वै विष्णोर् धानुष्कता तयोः
मुसुला नाम ते बाणा मुसुलाकृतयो ऽम्बरम् । छादयाम् आसुर् उन्नादाः कल्पान्तगिरयो यथा
रेजुः कनकनाराचराजयो व्योम्नि तस्य ताः । शरव्याः कल्पवातार्ताः पतन्त्य इव तारकाः