गर्भवासम् इवापन्नं तेनासीत् तन्महापुरम् । मूर्खत्वं यौवनेनेव घनताम् आययौ तमः
प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः । आययुर् बलम् आलोला नैशभूतपरम्पराः
ददृशुस् तन्महायुद्धं द्वे लीले सा कुमारिका । प्रस्फुरद्धृदयेनैता देवीदत्तमहादृशा
प्रशेमुर् अथ गेहेषु प्रोद्यत्कटकटारवाः । एकार्णवपयःपूरैर् वाडवा इव वह्नयः
शरैस् सेनां समाकर्षन् राजा परबलान्तरम् । विवेश पक्षप्रोड्डीनो मेरुर् एकम् इवार्णवम्
अथोदभूद् गुणध्वानश् चटच्चटद् इति स्फुटम् । रचितात्ममयाम्भोदास् तेरुश् शरपरम्पराः
ययुर् अम्बरम् आश्रित्य नानाहेतिविहङ्गमाः । प्रसस्रुर् अलम् आशासु मिहिकाश् शस्त्रदीप्तयः
बभ्रमुश् शस्त्रसङ्घट्टज्वलना उल्मुकाग्निवत् । जगर्जुश् शरधारौघान् वर्षन्तो वीरवारिदाः
विलेगुः कङ्कवत्क्रूरा वीराङ्गेषु च हेतयः । पेतुः पटपटारावं हेतिनिष्पिष्टयो ऽम्बरे
जग्मुश् शमं तमांस्य् आशु शस्त्रज्वलनदीपकैः । बभूवुर् अखिलास् सेना नवनाराचरोमशाः
उत्तस्थुर् नृत्तयात्रायां कबन्धनटपङ्क्तयः । जगुर् उच्चै रणद्रोहं पिशाच्यो रणदारिकाः
उदगुर् मत्तसङ्घट्टत्क्रेङ्कारा दन्तिनां बले । ऊहुः क्षेपणपाषाणमत्तनद्यो नभस्तले
पेतुश् च रथसङ्घातास् संशुष्कवनपर्णवत् । निर्ययुर् लोहिता नद्यो रणाद्रेर् मृतिवर्षिणः
प्रशेमुः पांसवो रक्तैस् तमांस्य् आयुधवह्निभिः । युद्धैकध्यानतश् शब्दा भयानि मृतिनिश्चयैः
अभवत् केवलं युद्धं सशब्दम् असमं भ्रमम् । अनाकुलाम्बुवाहाभखड्गवीचिसझाङ्कृतम्
षवषवरवसंवहच्छरौघं कटकटरवसंपतद्भुसुण्डि । झणझणरवसंमिलन्महास्त्रं निशि नवरणम् आस सुप्तवत् तत्
एतस्मिन् वर्तमाने तु घोरे समरसम्भ्रमे । लीलाद्वयम् उवाचेदं ज्ञप्तिं भगवतीं पुरः
देवि कस्माद् अकस्मान् नो भर्ता जयति नो रणे । वद त्वय्य् अपि तुष्टायाम् अस्मिन् विद्रुतवारणे
चिरम् आराधितानेन विदूरथनृपारिणा । अहं प्रतिजयार्थेन न विदूरथभूभुजा
तेनासाव् एव जयति जीयते न विदूरथः । ज्ञप्तिर् अन्तर्गता संविद् एषासौ यद् यथा यदा
चोदयत्य् आशु तत् तस्य तदा सम्पादयाम्य् अहम् । यो यथा चोदयति मां तस्य तिष्ठामि तत्फला
न स्वभावोद्यतं धत्ते वह्नेर् औष्ण्यम् इवैष मे । जयस् स्यान् मम संग्राम इत्य् अनेनास्मि पूजिता
प्रतिमारूपिणी तेन फलम् आप्नोत्य् असौ तथा । विदूरथेनैतम् अर्थं असञ्चिन्त्यास्मि बोधिता
अनेन चैव मुक्तस् स्याम् अहम् इत्य् अस्मि भाविता । तस्माद् विदूरथो देहं तं प्राप्य सह भार्यया
त्वयानया च कालेन बाले मुक्तो भविष्यति । एतदीयस् त्व् अयं शत्रुस् सिन्धुनाम महीपतिः । हत्वैनं वसुधापीठे जयी राज्यं करिष्यति
चेलुस् तिमिरसंघाता बलानीवालिरूपिणः । असृजीव शवान्य् आसन् सन्ध्यायां तारका दिवि
शनैर् विकटतां जग्मू रणाकाशाद्रिभूमयः । भुवनं कज्जलाम्भोधेर् इवोत्क्षिप्तम् अराजत
पेतुः कनकनिष्ष्यन्दसुन्दरा रविरश्मयः । शैलेषु वरवीरेषु रणरक्तच्छटा इव
अदृश्यत ततो व्योम तथा रणमहीतलम् । बाहुभिर् भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम्
कुण्डलैः कीर्णरत्नौघं शिरोभिर् वृद्धपङ्कजम् । आयुधैः खगनीरन्ध्रं शरैश् शरभनिर्भरम्