गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया । अन्नं महाशनेनेव जरसा परिजीर्यते
दिनैः कतिपयैर् एव परिज्ञाय गतादरम् । दुर्जनस् सज्जनेनेव यौवनेनावमुच्यते
विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते
स्थिरतया सुखहारितया तया सततम् उज्झितम् उत्तम फल्गु च । जगति नास्ति तथा गुणवर्जितं मरणमार्जितम् आयुर् इदं यथा
मुधैवाभ्युत्थितो मोहान् मुधैव परिवर्धते । मिथ्यामयेन भीतो ऽस्मि दुरहङ्कारशत्रुणा
अहङ्कारवशाद् एव दोषकोशः कदर्थनाम् । ददाति दीनदीनानां संसारो विविधाकृतिः
अहङ्कारवशाद् आपद् अहङ्काराद् दुराधयः । अहङ्कारवशाद् ईहाप्य् अहङ्कारो महामयः
तम् अहङ्कारम् आश्रित्य परमं चिरवैरिणम् । न भुञ्जे न पिबाम्य् अम्भः किम् उ भोगान् भजे मुने
संसाररज्जुर् आदीर्घा मम चेतसि मोहिनी । तताहङ्कारदोषेण किरातेनेव वागुरा
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च । अहङ्कारात् प्रसूतानि तान्य् अगात् खदिरा इव
शमेन्दोस् सैंहिकेयास्यं गुणपद्ममहाशनिम् । ज्ञानमेघशरत्कालम् अहङ्कारं त्यजाम्य् अहम्
नाहं रामो न मे वाञ्छा भावेषु च न मे मनः । शान्त आसितुम् इच्छामि स्वात्मन्य् एव जिनो यथा
अहङ्कारवशाद् यद् यन् मया भुक्तं कृतं हृतम् । सर्वं तु तद् अवस्त्व् एव वस्त्व् अहङ्काररिक्तता
अहम् इत्य् अस्ति चेद् ब्रह्मन्न् अहम् आपदि दुःखितः । सम्पत्सु सुखितस् तस्माद् अनहङ्कारिताधनः
अहङ्कारं परित्यज्य मुने शान्तमनास् तथा । अवतिष्ठे गतोद्वेगो भोगौघे ऽभङ्गुरास्पदम्
ब्रह्मन् यावद् अहङ्कारवारिदः प्रविजृम्भते । तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी
अहङ्कारघने शान्ते तृष्णानवतडिल्लता । शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम्
अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः । विस्फूर्जति घनास्फोटैस् स्तनितैर् इव वारिदः
इह देहमहादर्यां घनाहङ्कारकेसरी । यो ऽयम् उल्लसति स्फारं तेनेदं जगद् आततम्
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा । अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता
पुत्रदारकलत्राणि तन्त्रं मन्त्रविवर्जितम् । प्रसारितम् अनेनेह दुरहङ्कारवैरिणा
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे स्वयम् अखिद्यता । प्रमार्जिता भवन्त्य् एव सर्व एव दुराधयः
अहम् इत्य् अम्बुदे शान्ते शनैस् सुशमशालिनि । मनोमननसम्मोहमिहिका क्वापि गच्छति
निरहङ्कारवृत्तेर् मे मौर्ख्याच् छोकेन सीदतः । यत् किञ्चिद् उचितं ब्रह्मंस् तद् आख्यातुम् इहार्हसि
सर्वापदां निलयम् अध्रुवम् अन्तरस्थम् उन्मुक्तम् उत्तमगुणेन न संश्रयामि । यत्नाद् अहङ्कृतिपदं परितो ऽतिदुःखं शेषेण मां समनुशाधि महानुभाव
दोषैर् जर्जरतां यातं सत्कार्याद् आर्यसेवितात् । वातात्तपिञ्छलववच् चेतश् चलति चञ्चलम्
इतश् चेतश् च सुव्यग्रं व्यर्थम् एवाभिधावति । दूराद् दूरतरं दीनं ग्रामे कौलेयको यथा
न प्राप्नोति क्वचित् किञ्चित् प्राप्तैर् अपि महाधनैः । नान्तस् सम्पूर्णताम् एति करण्डक इवाम्बुभिः
नित्यम् एव मनश् शून्यं कदाशावागुरावृतम् । न मनाङ् निर्वृतिं याति मृगो यूथाद् इव च्युतः
तरङ्गतरलां वृत्तिं दधद् आलूनशीर्णताम् । परित्यज्य क्षणम् अपि न मनो याति निर्वृतिम्