रणे देहं परित्यज्य यत्र तिष्ठति मे पतिः । अनेनैव शरीरेण तत्र स्याम् एतदङ्गना
एवम् अस्तु त्वयाविघ्नं पूजितास्मि सुते चिरम् । अनन्यभावया देवि पुष्पधूपसपर्यया
अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् । पूर्वलीलाब्रवीद् देवीं सन्देहलुलिताशया
ये सत्यकामास् सत्यैकसङ्कल्पा ब्रह्मरूपिणः । त्वादृशास् सर्वम् एवाशु तेषां सिद्ध्यत्य् अभीप्सितम्
तत् तेनैव शरीरेण किम् अर्थं नाहम् ईश्वरि । लोकान्तरम् इमं नीता तं गिरिग्रामकं च वा
न किञ्चित् कस्यचिद् अहं करोमि वरवर्णिनि । सर्वं सम्पादयत्य् आशु स्वयं जीवस् समीहितम्
अहं हि सरले ज्ञप्तिस् संविन्मात्राधिदेवता । प्रत्येकम् अस्मि चिच्छक्तिर् जीवशक्तिस्वरूपिणी
जीवस्योदेत्य् अहंशक्तिर् यस्य यस्य यथा यथा । भाति तत्फलदा नित्यं तस्य तस्य तथा तथा
मां समाराधयन्त्य् आशु जीवशक्तिस् तथोदिता । यथा भवत्य् अदेहास्यां मुक्तास्मीति चिरं तदा
तेन तेन प्रकारेण त्वं मया सम्प्रबोधिता । तया युक्त्यामलं भावं नीतासि वरवर्णिनि
अनयैवं भावनया बोधितास्मि चिरं यदा । तम् एवार्थं प्राप्नुवती तदा स्वचितिशक्तितः
यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् । फलं ददाति कालेन तस्य तस्य तथा तथा
तपो वा देवता वापि भूत्वा सैव चिद् अव्यया । फलं ददात्य् अथ स्वैरं नभःफलनिपातवत्
स्वसंविद्द्योतनाद् अन्यन् न किञ्चन कदाचन । फलं भवति तेनाशु यथेच्छसि तथा कुरु
चिद्भाव एव ननु सर्वगतो ऽन्तरात्मा यश् चेतति प्रयतते च तद् एति तच्छ्रीः । रम्यं न रम्यम् अथवेति विचार्य तस्माद् यत् पावनं तद् अवबुध्य तद् अन्तर् आस्स्व
एवं सङ्कथयन्तीषु तासु तस्मिन् गृहोदरे । विदूरथः किम् अकरोन् निर्गत्य कुपितो गृहात्
विदूरथस् स्वसदनान् निर्गत्य परिवारितः । परिवारेण महता ऋक्षौघेनैव चन्द्रमाः
सन्नद्धसर्वावयवो लग्नहारविभूषणः । महाजयजयारावैस् सुरेन्द्र इव निर्गतः
समादिशन् योधगणं शृण्वन् मण्डलसंस्थितिम् । आलोकयन् वीररणान् आरुरोह नृपो रथम्
भूतागारसमाकारं मुक्तामाणिक्यमण्डितम् । पताकापुञ्जकव्याप्तं द्युविमानम् इवागतम्
चन्द्रभित्तिपरिस्रोतःप्रपतत्काञ्चनाङ्कुरम् । मुक्ताझणझणत्कारचारुविद्रुमकूवरम्
सुग्रीवैर् लक्षणोपेतैः प्रशस्तैर् धवलैः कृशैः । जवोन्नयनवेगेन प्रस्रवद्भिः खुरान् इव
वायून् अपीव सहजान् असहद्भिर् गतिक्रमैः । प्रोज्झद्भिर् इव पश्चार्धम् आपिबद्भिर् इवाम्बरम्
योजितैर् इव संपूर्णैश् चन्द्रैश् चामरदीप्तिभिः । अश्वैर् अष्टभिर् आबद्धम् आशापूरकहेषितैः
अथोदभूत् तदोद्दामनागाभ्ररवनिर्भरः । शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः
मत्तसैनिकनिर्मुक्तैर् व्याप्तैः कलकलारवैः । किङ्किणीजालनिध्वानैर् हेतिसङ्घट्टटाङ्कृतैः
धनुश्चटचटाशब्दैश् शरशीत्कारगायनैः । परस्परांसनिष्पिष्टकवचौघझणज्झणैः
ज्वलदग्निटणत्कारैर् आर्तिमत्क्रन्दनारवैः । परस्परं भटाह्वानैर् बन्दीविक्षुब्धरोदनैः
शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः । हस्तग्राह्यो भवद्भीमो दशाशाकुञ्जपूरकः
अथोदपतद् आदित्यपथपीवररोधकम् । रजोनिभेन भूपीठम् अम्बरोड्डयनोन्मुखम्