साकारस्येव बोधाय विज्ञेया भवताधुना । अनन्यास् स्वात्मनस् ते स्युस् तरोर् अवयवा इव
यथास्थितम् इदं विश्वं निजभावक्रमोदितम् । रिक्तं तद् विश्वशब्दार्थैर् अनन्यद् ब्रह्मणि स्थितम्
न तत् सत्यं न चासत्यं रज्ज्वां सर्पभ्रमोपमम् । मिथ्यानुभूतितस् सत्यम् असत्यं तत् परीक्षणात्
परमं कारणं वित्त्वाज् जीवत्वम् इव वेत्त्य् अलम् । अतस् तद् एवानुभवञ् जीवत्वं विन्दते स्फुटम्
सत्यं भवत्य् असत्यं वा खे ऽपि भातम् इदं जगत् । रञ्जयत्य् एव जीवाणुं स्वोत्थाभिर् अनुभूतिभिः
अनुभूतय एतास् तु काश्चित् पूर्वानुभूतितः । अपूर्वानुभवाः काश्चित् समाश् चैवासमाश् च ताः
क्वचित् कदाचित् ता एव क्वचिद् एव समा अपि । कचन्त्य् असत्यास् सत्याभा जीवाकाशे ऽनुभूतयः
तत्कुलास् तत्समाचारास् तज्जन्मानस् तदीहिताः । त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति वः
ते चैवात्मन्य् अलं सत्या देशकालेहितैस् समाः । सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः
यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी । तथान्व् अगग्रगोदेति सत्यैव प्रतिभास्वरे
त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुष्मयी । इति लीलेयम् आभाति प्रतिभा प्रतिबिम्बजा
सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति । यादृशी यत्र सा तत्र तथोदेति निरन्तरा
जीवाकाशस्य यान्तस्स्था प्रतिभा कचति स्वयम् । सा बहिः खे चिदादर्शप्रतिबिम्बाद् इयं स्थिता
एषा त्वम् अम्बरम् अहं भुवनं धरादि राजेति सर्वम् अजम् एव विभातमात्रम् । चिद्व्योम बिल्वजठरं विदुर् अङ्ग विद्धि त्वं चेति शान्तम् अलम् आस्स्व यथास्थितेह
विदूरथस् ते भर्तैष तनुं त्यक्त्वा रणाङ्गने । तद् एवान्तःपुरं प्राप्य तादृगात्मा भविष्यति
इत्य् आकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा । पुनः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः
देवी भगवती ज्ञप्तिर् नित्यम् एव मयार्चिता । स्वप्नेषु दर्शनं देवि सा ददाति निशासु मे
सा यादृग् एव देवेशि तादृग् एव त्वम् अम्बिके । त्वं मे कृपणकारुण्याद् वरं देहि वरानने
इत्य् उक्ता सा तदा ज्ञप्तिस् स्मृत्वा तद् भक्तिभावनाम् । इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम्
अनन्यया भावनया यावज्जीवम् अजीर्णया । परितुष्टास्मि ते वत्से गृहाणाभीप्सितं वरम्
रणे देहं परित्यज्य यत्र तिष्ठति मे पतिः । अनेनैव शरीरेण तत्र स्याम् एतदङ्गना
एवम् अस्तु त्वयाविघ्नं पूजितास्मि सुते चिरम् । अनन्यभावया देवि पुष्पधूपसपर्यया
अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् । पूर्वलीलाब्रवीद् देवीं सन्देहलुलिताशया
ये सत्यकामास् सत्यैकसङ्कल्पा ब्रह्मरूपिणः । त्वादृशास् सर्वम् एवाशु तेषां सिद्ध्यत्य् अभीप्सितम्
तत् तेनैव शरीरेण किम् अर्थं नाहम् ईश्वरि । लोकान्तरम् इमं नीता तं गिरिग्रामकं च वा
न किञ्चित् कस्यचिद् अहं करोमि वरवर्णिनि । सर्वं सम्पादयत्य् आशु स्वयं जीवस् समीहितम्
अहं हि सरले ज्ञप्तिस् संविन्मात्राधिदेवता । प्रत्येकम् अस्मि चिच्छक्तिर् जीवशक्तिस्वरूपिणी
जीवस्योदेत्य् अहंशक्तिर् यस्य यस्य यथा यथा । भाति तत्फलदा नित्यं तस्य तस्य तथा तथा
मां समाराधयन्त्य् आशु जीवशक्तिस् तथोदिता । यथा भवत्य् अदेहास्यां मुक्तास्मीति चिरं तदा
तेन तेन प्रकारेण त्वं मया सम्प्रबोधिता । तया युक्त्यामलं भावं नीतासि वरवर्णिनि