न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् । बाह्यम् अस्त्य् अन्तरं भाति स्वप्नार्थो ऽत्र निदर्शनम्
यद् अन्तस् स्वप्नसङ्कल्पपुरवत् कचनं चितेः । तद् एतद् बाह्यनाम्नैव स्वाभ्यासात् सुस्फुटं स्थितम्
यादृग्भावो मृतो भर्ता तव तस्मिंस् तदा पुरे । तादृग्भावस् तम् एवार्थं तत्रैव समुपागतः
अन्य एव ह्य् अमी भृत्यास् तेभ्यस् तत्सदृशा अपि । सद्रूपा एव चैतस्य स्वप्नसङ्कल्पसैन्यवत्
अविसंवादि सर्वार्थरूपं यद् अनुभूयते । तस्य तावद् वद कथं कीदृशी वाप्य् असत्यता
अथवोत्तरकाले तु भङ्गुरत्वान् न वस्तुसत् । तद् ईदृक् सर्वम् एवेदं तत्र का नास्तिकाधिका
स्वप्नो जाग्रत्य् असद्रूपस् स्वप्ने जाग्रद् असद्वपुः । मृतिर् जन्मन्य् असद्रूपा मृतौ जन्माप्य् असन्मयम्
विचारविशरारुत्वाद् अनुभूतेश् च सुन्दरि । एवं न सन् नासद् इदं भ्रान्तिमात्रं विभासते
महाकल्पान्तसम्पत्ताव् अप्य् अद्यान्ययुगे ऽथवा । न कदाचन यन् नाशि तद् ब्रह्मैवास्ति तज् जगत्
तस्मिन् मध्ये कचन्तीमा भ्रान्तयस् सृष्टिनामिकाः । व्योम्नि केशोण्डुकानीव न कचन्ति तु वस्तुतः
यथा तरङ्गा जलधौ तथेमास् सृष्टयः परे । उत्पत्योत्पत्य लीयन्ते रजांसीव महानिले
तस्माद् भ्रान्तिमयाभासे मिथ्यात्वम् अहमात्मके । मृगतृष्णाजलरये केवास्था सर्गभस्मनि
भ्रान्तयश् च न तत्रान्यास् तास् ता एव परं पदम् । घने तमसि यक्षाभा तम एव न यक्षकाः
तस्माज् जन्म मृतिर् मोहो व्योमाहं त्वम् इदं ततम् । सर्वं तच् च महाकल्पशान्तौ यद् अवशिष्यते
नातस् सत्यम् इदं दृष्टं न चासत्यं कदाचन । द्वयम् एवैतद् अथ वा ब्रह्म तत्रैव सम्भवत्
आकाशपरमाण्वन्तर् द्रव्यादेर् अणुके ऽपि वा । जीवाणुर् यत्र तत्रेदं जगद् वेत्ति निजं वपुः
अग्निर् औष्ण्यं यथा वेत्ति निजभावक्रमोदितम् । पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित्
यथा सूर्यातपे गेहे भ्रमन्ति त्रसरेणवः । तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः
यथा वायौ स्थितस् स्पन्द आमोदश् शैत्यम् अम्बरे । पिण्डग्रहविनिर्मुक्तं तथा विश्वं स्थितम् परे
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः । विवर्जितस्यावयवैर् भावा ब्रह्मण ईदृशैः
साकारस्येव बोधाय विज्ञेया भवताधुना । अनन्यास् स्वात्मनस् ते स्युस् तरोर् अवयवा इव
यथास्थितम् इदं विश्वं निजभावक्रमोदितम् । रिक्तं तद् विश्वशब्दार्थैर् अनन्यद् ब्रह्मणि स्थितम्
न तत् सत्यं न चासत्यं रज्ज्वां सर्पभ्रमोपमम् । मिथ्यानुभूतितस् सत्यम् असत्यं तत् परीक्षणात्
परमं कारणं वित्त्वाज् जीवत्वम् इव वेत्त्य् अलम् । अतस् तद् एवानुभवञ् जीवत्वं विन्दते स्फुटम्
सत्यं भवत्य् असत्यं वा खे ऽपि भातम् इदं जगत् । रञ्जयत्य् एव जीवाणुं स्वोत्थाभिर् अनुभूतिभिः
अनुभूतय एतास् तु काश्चित् पूर्वानुभूतितः । अपूर्वानुभवाः काश्चित् समाश् चैवासमाश् च ताः
क्वचित् कदाचित् ता एव क्वचिद् एव समा अपि । कचन्त्य् असत्यास् सत्याभा जीवाकाशे ऽनुभूतयः
तत्कुलास् तत्समाचारास् तज्जन्मानस् तदीहिताः । त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति वः
ते चैवात्मन्य् अलं सत्या देशकालेहितैस् समाः । सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः
यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी । तथान्व् अगग्रगोदेति सत्यैव प्रतिभास्वरे