इह धूमस् स्फुरद्वह्निकण आवर्तवृत्तिमान् । स्थित आपीडवान् व्योम्नि रत्नपूर इवाम्बरे
गौरम् अम्बरम् आभाति ज्वालाशिखरतेजसा । मृत्योर् इवोत्सवे दत्तः कुङ्कुमाङ्कः कदर्थकः
अहो नु विषमं वैरं वर्तते वृत्तिवर्जितम् । ह्रियन्ते राजनार्यो ऽपि वरवीरैर् उदायुधैः
लोलस्रग्दामकुसुमैर् मार्गप्रकरकारिकाः । अर्धनिर्दग्धकवरीकीर्णवक्षस्स्थलाम्बराः
आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः । पतन्माणिक्यवलया वलितावनिमण्डलाः
छिन्नहारलताजालविकीर्णामलमौक्तिकाः । दृष्टादृष्टस्तनश्रोणिपार्श्वोद्यत्कनकप्रभाः
कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः । धारापात्यस्रुनाराचभिन्नपार्श्वस्थचेतनाः
रक्तकर्दमबाष्पाम्बुक्लिन्नग्रथितवाससः । भुजमूलार्पितभुजैर् नीयमाना बलान् नृभिः
क इवास्मत्परित्राता स्याद् इत्य् आदीनवीक्षितैः । उत्पलैर् इव वर्षद्भिः परिरोदितसैनिकाः
मृणालकोमलाच्छोरुमूलजालैस् सुनिर्मलैः । स्वच्छाम्बरतलालक्ष्यैर् आकाशनलिनीनिभाः
आलोलमाल्यवसनाभरणाङ्गरागा ईर्ष्याकुलाननचलालकवल्लरीकाः । आनन्दसुन्दरनिरङ्कुशमथ्यमानात् कामार्णवात् समुदिता इव राजलक्ष्म्यः
एतस्मिन्न् अन्तरे राजमहिषी मत्तयौवना । तद् विवेश गृहं लक्ष्मीर् इव पङ्कजकोटरम्
आलोलमाल्यवसना च्छिन्नहारलताकुला । अनुयाता वयस्याभिर् दासीभिर् भयविह्वला
चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा । तारकाकारदशना स्थिता द्यौर् इव रूपिणी
अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् । वृत्रसङ्ग्रामसंरभ्दम् अमरेन्द्रम् इवाप्सराः
देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् । शरणं देवम् आयाता वातार्तेव लता द्रुमम्
राजदारा हृतास् स्तेनैर् बलवद्भिर् उदायुधैः । ऊर्मिजालैर् महाब्धीनां तीरे द्रुमलता इव
अन्तःपुराधिपास् सर्वे पिष्टाश् शत्रुभिर् उद्धतैः । अशङ्किताभिपतितैर् वातैर् इव वनद्रुमाः
पूरेणाशङ्कम् आयातैः परैर् नः पुरम् आहृतम् । रात्रौ वर्षास्व् इवोद्गारैर् उदकप्लववारिभिः
धूम्रवर्मभिर् उन्नादैर् लेलिहानाग्रहेतिभिः । वह्निभिर् नः पुरं व्याप्तं परयोधैश् च भूरिभिः
परिवारविलासिन्यो देव्य आहृत्य मूर्धजैः । आक्रन्दन्त्यो बलान् नीताः कुरर्य इव धीवरैः
इति नो येयम् आयाता शाखा प्रसरशालिनी । आपत् ताम् अलम् उद्धर्तुं देवस्यैवास्ति शक्तिता
इत्य् आकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्य् अहम् । क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी
इत्य् उक्त्वा निर्ययौ राजा कोपाकुलितचेतनः । मत्तेभनिर्भिन्नवनः कन्दराद् इव केशरी
लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् । प्रतिबिम्बम् इवायाताम् आदर्शे चारुदर्शनाम्
किम् इदं देवि मे ब्रूहि कस्माद् इयम् अहं स्थिता । या साभवम् अहं पूर्वं कथं सेयम् इह स्थिता
मन्त्रिप्रभृतयः पौरा योधास् सबलवाहनाः । सर्व एव त एवेमे स्थितास् तत्र तथैव ये
तत्रापीदम् अयं देवि सर्वे कथम् इह स्थिताः । बहिर् अन्तश् च मकुर इवैते किं प्रचेतनाः
यथा ज्ञप्तिर् उदेत्य् अन्तस् तथानुभवति क्षणात् । चितिश् चेत्यार्थताम् एति चित्तं चित्तार्थताम् इव
यादृग्भावन एवान्तश्चेतनस् तनुते स्मृतिम् । तादृगर्थजगद्रूपस् तत्रैवोदेति तत्क्षणात्