मातापितृविनिर्मुक्ता बालकास् तिमिरावलीः । मथ्नन्तो ऽङ्गेषु रथ्यासु कुड्यपातेन हा हताः
वत विद्रावितान्धस्य करिणो रणमूर्धनि । पतदङ्गारकागारभारिणः कटुकूजितम्
हा कष्ठम् असिनिर्भिन्नस्कन्धे सन्नदृढोल्मुके । पतितो यन्त्रपाषाणः पुरुषस्याशनिर् यथा
गवाश्वमहिषाजोष्ट्रश्वशृगालवृकैर् अहो । घोरो रण इहारब्धो मार्गरोधक आकुलैः
पटैः पटपटाशब्दैर् ज्वलज्ज्वालालिमारुतैः । आक्रन्दिन्यस् स्त्रियो यान्ति स्थलपद्माचिता इव
स्त्रीणां ज्वालालवाः पश्य लिहन्त्य् अलकवल्लरीः । कुर्वन्तो ऽशोकपुष्पाभां करभा इव पन्नगीः
हा हा हरिणशावाक्ष्याः पक्ष्मलेक्षणपक्ष्मसु । कुशाग्रेष्व् इव विश्रान्तिम् एति कार्षाणवी शिखा
दह्यमानो ऽपि निर्याति न कलत्रं विना नरः । अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः
करी रभसनिर्भिन्नज्वलदङ्गारपादपैः । प्लुष्टपुष्करकः कोपान् मथ्नात्य् उत्पुष्करं सरः
धूमोऽम्बुदपदं प्राप्य लोलालाततडिल्लतम् । ज्वलदङ्गारनाराचनिकरं परिवर्षति
इह धूमस् स्फुरद्वह्निकण आवर्तवृत्तिमान् । स्थित आपीडवान् व्योम्नि रत्नपूर इवाम्बरे
गौरम् अम्बरम् आभाति ज्वालाशिखरतेजसा । मृत्योर् इवोत्सवे दत्तः कुङ्कुमाङ्कः कदर्थकः
अहो नु विषमं वैरं वर्तते वृत्तिवर्जितम् । ह्रियन्ते राजनार्यो ऽपि वरवीरैर् उदायुधैः
लोलस्रग्दामकुसुमैर् मार्गप्रकरकारिकाः । अर्धनिर्दग्धकवरीकीर्णवक्षस्स्थलाम्बराः
आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः । पतन्माणिक्यवलया वलितावनिमण्डलाः
छिन्नहारलताजालविकीर्णामलमौक्तिकाः । दृष्टादृष्टस्तनश्रोणिपार्श्वोद्यत्कनकप्रभाः
कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः । धारापात्यस्रुनाराचभिन्नपार्श्वस्थचेतनाः
रक्तकर्दमबाष्पाम्बुक्लिन्नग्रथितवाससः । भुजमूलार्पितभुजैर् नीयमाना बलान् नृभिः
क इवास्मत्परित्राता स्याद् इत्य् आदीनवीक्षितैः । उत्पलैर् इव वर्षद्भिः परिरोदितसैनिकाः
मृणालकोमलाच्छोरुमूलजालैस् सुनिर्मलैः । स्वच्छाम्बरतलालक्ष्यैर् आकाशनलिनीनिभाः
आलोलमाल्यवसनाभरणाङ्गरागा ईर्ष्याकुलाननचलालकवल्लरीकाः । आनन्दसुन्दरनिरङ्कुशमथ्यमानात् कामार्णवात् समुदिता इव राजलक्ष्म्यः
एतस्मिन्न् अन्तरे राजमहिषी मत्तयौवना । तद् विवेश गृहं लक्ष्मीर् इव पङ्कजकोटरम्
आलोलमाल्यवसना च्छिन्नहारलताकुला । अनुयाता वयस्याभिर् दासीभिर् भयविह्वला
चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा । तारकाकारदशना स्थिता द्यौर् इव रूपिणी
अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् । वृत्रसङ्ग्रामसंरभ्दम् अमरेन्द्रम् इवाप्सराः
देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् । शरणं देवम् आयाता वातार्तेव लता द्रुमम्
राजदारा हृतास् स्तेनैर् बलवद्भिर् उदायुधैः । ऊर्मिजालैर् महाब्धीनां तीरे द्रुमलता इव
अन्तःपुराधिपास् सर्वे पिष्टाश् शत्रुभिर् उद्धतैः । अशङ्किताभिपतितैर् वातैर् इव वनद्रुमाः
पूरेणाशङ्कम् आयातैः परैर् नः पुरम् आहृतम् । रात्रौ वर्षास्व् इवोद्गारैर् उदकप्लववारिभिः
धूम्रवर्मभिर् उन्नादैर् लेलिहानाग्रहेतिभिः । वह्निभिर् नः पुरं व्याप्तं परयोधैश् च भूरिभिः