कृशानुकणनाराचनिरन्तरतराम्बरम् । बृहदग्निशिखाजाललुठद्दग्धपुरोत्करम्
रणद्द्विरदसङ्घट्टकुट्टितोद्भटसद्भटम् । विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम्
अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् । स्फुटच्चटचटाशब्दप्रलुठत्प्लुष्टकाष्टकम्
विपुलालातचक्रौघशतसूर्यनभस्तलम् । अङ्गारशिखराकीर्णसमस्तवसुधातलम्
दग्धाग्निकाष्ठक्रेङ्काररणज्ज्वलनवैणिकम् । दग्धजन्तुपराक्रन्दरुदत्सकलसैरिभम्
पटविश्रान्तराजस्त्रीवृद्धोत्सन्नहृताशनम् । सकलग्रसनारम्भसोद्योगाग्निमहाशिखम्
कटच्छाक्कारदुक्कारकठिनाग्निरणद्गृहम् । अनन्तजन्तुभोज्यान्नवह्निमुक्तेन्धनस्पृहम्
अथ शुश्राव तत्रासौ गिरो राजा विदूरथः । योधानां दह्यमानानां पश्यताम् अभिधावताम्
हा मत्तमरुद् ऊर्ध्वस्थान् अङ्गारगृहपादपान् । रणत्खगवरलीनज्वलनान् पातयन् स्थितः
हा खड्गधारा प्रालेयशीता देहेषु दन्तिनाम् । लग्ना मनस्सु महताम् इव विज्ञानसूक्तयः
हा तात हेतयो लग्नास् तरुणीकवरीतृणे । ज्वलन्ति शुष्कपर्णौघा इव वीरानलेरिताः
आवर्तवर्तिनी दीर्घा वहत्य् ऊर्ध्वं तरङ्गिनी । पश्येयं धूमयमुना व्योमगङ्गां प्रधावति
वहदुल्मुककाष्टौर्ध्वगामिनी धूमनिम्नगा । वैमानिकान् अन्धयति पश्याग्निकणबुद्बुदा
अस्य माता पिता भ्राता जामाता तनयस् सुता । अस्मिन् सद्मनि निर्दग्धा दग्धैषाम् अन्तम् इच्छति
हा हा हा गच्छ भोश् शीघ्रम् एतद् अङ्गारमन्दिरम् । इतः प्रवृत्तं पतितुं सुमेरोश् शिखरं यथा
अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः । ज्वालासन्ध्यभ्रपटलं विशन्ति शलभा इव
हेतिप्रवाहा ज्वलनं नभस् सर्वे विशन्त्य् अहो । वडवानलम् उज्ज्वालम् अर्णःपूरा इवार्णवात्
धूमायन्ते महाभ्राणि ज्वालाशिखरकोटिषु । सरसान्य् अपि शुष्यन्ति हृदयानीव रागिनाम्
आलानत्वरुषैवैता दन्तिभिर् वृक्षपङ्क्तयः । स्फुटत्कटकटारावं पात्यन्ते कृतपीत्कृतैः
प्लुष्टपुष्पफलस्कन्धगन्धश्रीका गृहद्रुमाः । गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम्
मातापितृविनिर्मुक्ता बालकास् तिमिरावलीः । मथ्नन्तो ऽङ्गेषु रथ्यासु कुड्यपातेन हा हताः
वत विद्रावितान्धस्य करिणो रणमूर्धनि । पतदङ्गारकागारभारिणः कटुकूजितम्
हा कष्ठम् असिनिर्भिन्नस्कन्धे सन्नदृढोल्मुके । पतितो यन्त्रपाषाणः पुरुषस्याशनिर् यथा
गवाश्वमहिषाजोष्ट्रश्वशृगालवृकैर् अहो । घोरो रण इहारब्धो मार्गरोधक आकुलैः
पटैः पटपटाशब्दैर् ज्वलज्ज्वालालिमारुतैः । आक्रन्दिन्यस् स्त्रियो यान्ति स्थलपद्माचिता इव
स्त्रीणां ज्वालालवाः पश्य लिहन्त्य् अलकवल्लरीः । कुर्वन्तो ऽशोकपुष्पाभां करभा इव पन्नगीः
हा हा हरिणशावाक्ष्याः पक्ष्मलेक्षणपक्ष्मसु । कुशाग्रेष्व् इव विश्रान्तिम् एति कार्षाणवी शिखा
दह्यमानो ऽपि निर्याति न कलत्रं विना नरः । अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः
करी रभसनिर्भिन्नज्वलदङ्गारपादपैः । प्लुष्टपुष्करकः कोपान् मथ्नात्य् उत्पुष्करं सरः
धूमोऽम्बुदपदं प्राप्य लोलालाततडिल्लतम् । ज्वलदङ्गारनाराचनिकरं परिवर्षति