अस्मिन् रणवरे राजन् मृतव्यं भवताधुना । प्राप्तव्यं प्राक्तनं राज्यम् एतत् प्रत्यक्षम् एव मे
कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् । आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम्
आवां यावो यथायातं वातरूपेण च त्वया । आगन्तव्यश् च तद्देशः कुमार्या मन्त्रिणापि च
अन्यैव गतिर् अश्वस्य गतिर् अन्या खरोष्ट्रयोः । मदक्लिन्नकपोलस्य गतिर् अन्यैव दन्तिनः
प्रस्तुतेति कथा यावन् मिथो मधुरभाषिणोः । तावद् प्रविश्य सम्भ्रान्त उवाचोर्ध्वं स्थितो नरः
देव सायकचक्रासिगदापरिघवृष्टिमत् । महत् परबलं प्राप्तम् एकार्णव इवोद्धतः
कल्पकालानिलोद्धूतकुलाचलशिलोपमः । गदाशक्तिभुसुण्डीनां वृष्टीन् मुञ्चति वृष्टिवत्
नगरे नगसङ्काशे लग्नो ऽग्निर् व्याप्तदिक्तटः । दहंश् चटचटास्फोटैः पातयत्य् उत्तमाः पुरीः
कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः । बलात् प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव
ससम्भ्रमं वदन्त्य् एवं पुरुषे परुषारवे । उदभूत् पूरयन्न् आशा बहिः कोलाहलो महान्
बलाद् आकृष्टकर्णानां धनुषां शरवर्षिणाम् । बृहतां मत्तमत्तानां कुञ्जराणां तरस्विनाम्
पुरे चटचटास्फोटैर् वेल्लतां जातवेदसाम् । पौराणां दग्धदाराणां महाहलहलारवैः
तरताम् अग्निखण्डानां ष्वक्कारकठिनारवम् । ज्वलन्तीनां परिस्पन्दाद् ध्वगध्वगिति चार्चिषाम्
अथ वातायनाद् देव्यौ मन्त्री राजा विदूरथः । ददृशुः प्रोन्नमन्नादं महानिशि महापुरम्
प्रलयानिलसङ्क्षुब्धपूर्णैकार्णवरंहसा । पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा
कल्पान्तवह्निविगलन्देहभूधरभासुरैः । दह्यमानं महाज्वालाजालैर् अम्बरपूरकैः
मुष्टिग्राह्यमहामेघगर्जसन्तर्जनोर्जितैः । घोरं कलकलारावैर् मांसलैर् मन्त्रिजल्पितैः
पुष्करावर्तसङ्काशधूमाभ्रपिहिताम्बरम् । प्रोड्डीनहेमाभ्रनिभज्वालापुञ्जैर् निरन्तरम्
तरदुल्मुकखण्डोघतारातरलिताम्बरम् । अन्योऽन्यदेहसद्मौघप्रज्वलज्ज्वालनाकुलम्
हतसैन्यपुरापातधूताङ्गाराभ्रकोटरम् । कर्कशाक्रन्दनिर्दग्धलोकपूरोग्रगर्जितम्
कृशानुकणनाराचनिरन्तरतराम्बरम् । बृहदग्निशिखाजाललुठद्दग्धपुरोत्करम्
रणद्द्विरदसङ्घट्टकुट्टितोद्भटसद्भटम् । विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम्
अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् । स्फुटच्चटचटाशब्दप्रलुठत्प्लुष्टकाष्टकम्
विपुलालातचक्रौघशतसूर्यनभस्तलम् । अङ्गारशिखराकीर्णसमस्तवसुधातलम्
दग्धाग्निकाष्ठक्रेङ्काररणज्ज्वलनवैणिकम् । दग्धजन्तुपराक्रन्दरुदत्सकलसैरिभम्
पटविश्रान्तराजस्त्रीवृद्धोत्सन्नहृताशनम् । सकलग्रसनारम्भसोद्योगाग्निमहाशिखम्
कटच्छाक्कारदुक्कारकठिनाग्निरणद्गृहम् । अनन्तजन्तुभोज्यान्नवह्निमुक्तेन्धनस्पृहम्
अथ शुश्राव तत्रासौ गिरो राजा विदूरथः । योधानां दह्यमानानां पश्यताम् अभिधावताम्
हा मत्तमरुद् ऊर्ध्वस्थान् अङ्गारगृहपादपान् । रणत्खगवरलीनज्वलनान् पातयन् स्थितः
हा खड्गधारा प्रालेयशीता देहेषु दन्तिनाम् । लग्ना मनस्सु महताम् इव विज्ञानसूक्तयः