सर्वत्र वर्तते सर्वं देहस्यान्तर् बहिस् तथा । यत् तु वेत्ति यथा संवित् तत् तथाश्व् एव पश्यति
यत् कोशे विद्यते द्रव्यं तद् दृष्ट्वा लभ्यते यथा । तथास्ति सर्वं चिद्व्योम्नि लभ्यते यत् प्रचेत्यते
अनन्तरम् उवाचेदं देवी ज्ञप्तिर् विदूरथम् । कृत्वा बोधामृतासेकैर् विवेकाङ्कुरसुन्दरम्
तद् एवम् एष राजंस् त्वं लीलार्थम् उपवर्णितः । स्वस्ति ते ऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः
इति प्रोक्तं सरस्वत्या गिरा मधुरवर्णया । उवाच वचनं धीमान् भूमिपालो विदूरथः
ममापि दर्शनं देवि मोघं भवति नार्थिनि । महाफलप्रदायास् तु कथं तव भविष्यति
अहं देहं समुत्सृज्य लोकान्तरम् इतः परम् । निजम् आयामि हे देवि स्वप्नात् स्वप्नान्तरं यथा
अत्रादिशाशु मां मातः प्रपन्नं शरणागतम् । भक्ते ऽवहेला वरदे महतां न विराजते
यं प्रदेशम् अहम् यामि तम् एवायात्व् अयं मम । मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम्
आगच्छ राज्यम् उचिताङ्गविचारचारु प्राग्जन्ममण्डलवरे कुरु निर्विशङ्कम् । अस्माभिर् अर्थिजनकामनिराकृतिर् हि दृष्टा न काचन कदाचिद् अपीति विद्धि
अस्मिन् रणवरे राजन् मृतव्यं भवताधुना । प्राप्तव्यं प्राक्तनं राज्यम् एतत् प्रत्यक्षम् एव मे
कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् । आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम्
आवां यावो यथायातं वातरूपेण च त्वया । आगन्तव्यश् च तद्देशः कुमार्या मन्त्रिणापि च
अन्यैव गतिर् अश्वस्य गतिर् अन्या खरोष्ट्रयोः । मदक्लिन्नकपोलस्य गतिर् अन्यैव दन्तिनः
प्रस्तुतेति कथा यावन् मिथो मधुरभाषिणोः । तावद् प्रविश्य सम्भ्रान्त उवाचोर्ध्वं स्थितो नरः
देव सायकचक्रासिगदापरिघवृष्टिमत् । महत् परबलं प्राप्तम् एकार्णव इवोद्धतः
कल्पकालानिलोद्धूतकुलाचलशिलोपमः । गदाशक्तिभुसुण्डीनां वृष्टीन् मुञ्चति वृष्टिवत्
नगरे नगसङ्काशे लग्नो ऽग्निर् व्याप्तदिक्तटः । दहंश् चटचटास्फोटैः पातयत्य् उत्तमाः पुरीः
कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः । बलात् प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव
ससम्भ्रमं वदन्त्य् एवं पुरुषे परुषारवे । उदभूत् पूरयन्न् आशा बहिः कोलाहलो महान्
बलाद् आकृष्टकर्णानां धनुषां शरवर्षिणाम् । बृहतां मत्तमत्तानां कुञ्जराणां तरस्विनाम्
पुरे चटचटास्फोटैर् वेल्लतां जातवेदसाम् । पौराणां दग्धदाराणां महाहलहलारवैः
तरताम् अग्निखण्डानां ष्वक्कारकठिनारवम् । ज्वलन्तीनां परिस्पन्दाद् ध्वगध्वगिति चार्चिषाम्
अथ वातायनाद् देव्यौ मन्त्री राजा विदूरथः । ददृशुः प्रोन्नमन्नादं महानिशि महापुरम्
प्रलयानिलसङ्क्षुब्धपूर्णैकार्णवरंहसा । पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा
कल्पान्तवह्निविगलन्देहभूधरभासुरैः । दह्यमानं महाज्वालाजालैर् अम्बरपूरकैः
मुष्टिग्राह्यमहामेघगर्जसन्तर्जनोर्जितैः । घोरं कलकलारावैर् मांसलैर् मन्त्रिजल्पितैः
पुष्करावर्तसङ्काशधूमाभ्रपिहिताम्बरम् । प्रोड्डीनहेमाभ्रनिभज्वालापुञ्जैर् निरन्तरम्
तरदुल्मुकखण्डोघतारातरलिताम्बरम् । अन्योऽन्यदेहसद्मौघप्रज्वलज्ज्वालनाकुलम्
हतसैन्यपुरापातधूताङ्गाराभ्रकोटरम् । कर्कशाक्रन्दनिर्दग्धलोकपूरोग्रगर्जितम्