राजन् विदितवेद्येषु शुद्धबोधैकरूपिषु । न किञ्चिद् एतत् सद्रूपं चिद्व्योमात्मसु जागतम्
शुद्धबोधात्मनो भाति कुतो नाम जगद्भ्रमः । रज्ज्वां सर्पभ्रमे शान्ते पुनस् सर्पभ्रमः कुतः
असद्भाते परिज्ञाते कुतस् सत्ता जगद्भ्रमे । परिज्ञाते मरुजले पुनर् जलमतिः कुतः
स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणे कुतः । स्वस्वप्ने स्वप्नमृतिभीर् अमृतस्यैव जायते
बुद्धस्य शुद्धस्य शरन्नभश्श्रीस्वच्छावदातस्य घनाशयस्य । अहं जगच् चेति कुशब्दकार्थवर्जं यद् अस्त्य् अङ्गनवाचिकं तत्
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
यस् त्व् अबुद्धमतिर् मूढो रूढो न वितते पदे । वज्रसारम् इदं तस्य जगद् अस्त्य् असद् एव सत्
यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः । असद् एव सदाकारं तथा मूढमतेर् जगत्
ताप एव यथा वारि मृगाणां भ्रमकारणम् । असत्यम् एव सत्याभं तथा मूढधियां जगत्
यथा स्वप्ने मृतिर् जन्तोर् असत्या सत्यरूपिणी । नार्थक्रियाकरी भाति तथेदं दुर्विदां जगत्
अव्युत्पन्नस्य कनके कानके कटके यथा । कटकज्ञप्तिर् एवास्ति न मनाग् अपि हेमधीः
यथाज्ञस्य पुरागारनगनागेन्द्रकल्पना । इयं दृश्यदृग् एवास्ति न त्व् अन्या परमार्थदृक्
यथा नभसि मुक्तालीपिञ्छकेशोण्डुकादयः । असत्यास् सत्यतां याता तथेदं दुर्दृशां जगत्
दीर्घस्वप्नम् इदम् विश्वं विद्ध्य् अहन्तादिसंयुतम् । अत्रान्ये स्वप्नपुरुषा यथा सत्यास् तथा शृणु
अस्ति सर्वगतं शान्तं परमार्थघनं शुचि । अचेत्यचिन्मात्रवपुः परमाकाशम् आततम्
तत् सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् । यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै
तेन स्वप्नपुरे द्रष्टा यान् वेत्ति पुरवासिनः । नरान् इति नरा एव क्षणात् तस्य भवन्ति ते
यद् द्रष्टुश् चित्स्वरूपं तत् स्वप्नाकाशान्तरस्थितम् । स्वप्नाकाशचिताहं हि नरो ऽनेनेति भावितम्
चित्पक्षतैक्यवशतो नरतैवावबुध्यते । आत्मन्य् अतो दिग्द्वयेन द्वयोर् अप्य् एति सत्यता
स्वप्ने ते स्वप्नपुरुषा न सत्यास् स्युर् मुने यदा । वद तत् को भवेद् दोषो मायामात्रशरीरिणि
स्वप्ने ऽन्यपुरवास्तव्या वस्तुतस् सत्यरूपिणः । प्रमाणम् अत्र शृणु मे प्रत्यक्षं नाम नेतरत्
सर्गादाव् आत्मभूर् भाति स्वप्नाभो ऽनुभवात्मकः । तत्सङ्कल्पकला विश्वम् एवं स्वप्नाभम् एव तत्
एवं विश्वम् इदं स्वप्नस् तत्र सत्यं भवान् मम । यथैव त्वं तथैवान्ये स्वप्ने स्वप्नं तथा नृणाम्
स्वप्ने नगरवास्तव्यास् सत्या न स्युर् इमे यदि । तद् इहापि तदाकारे न सत्यं मे भवान् अपि
यथाहं तव सत्यात्मा सत्यम् एवं भवान् मम । स्वप्नोपलम्भे संसारे मिथस् सिद्ध्यै प्रथेदृशी
संसारविपुले स्वप्ने यथा सत्यम् अहं तव । तथा त्वम् अपि मे सत्यं सर्वस्वप्नेष्व् इति क्रमः
स्वप्नद्रष्टरि निर्निद्रे तद् दृष्टं स्वप्नपत्तनम् । सद्रूपत्वात् तथैवास्ते ममैवं भगवन् मतिः
एवम् एतत् तथैवास्ते सत्यत्वात् स्वप्नपत्तनम् । स्वप्नद्रष्टरि निर्निद्रे ऽप्य् आकाशविषदाकृतिः
एतद् आस्ताम् इदं तावद् यज् जाग्रद् इति मन्यसे । विद्धि तत् स्वप्नम् एवान्तर् देशकालाद्यपूरकम्
एवं सर्वम् इदं भाति न सत्यं सत्यवत् स्थितम् । रञ्जयत्य् अपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम्