इदानीं कृतकृत्यो ऽस्मि जातो ऽस्मि गतसंशयः । शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
इतीयम् आतता भ्रान्तिर् भवतो भूरिसम्भ्रमा । नानाहारविहाराढ्या सलोकान्तरसञ्चरा
यस्मिन्न् एव मुहूर्ते त्वं मृतिम् अभ्यागतः पुरा । तदैव प्रतिभैषा ते स्वयम् अभ्युदिता हृदि
एकाम् आवर्तवलनां त्यक्त्वाधत्ते यथापराम् । क्षिप्रम् एव नदीवाहश् चित्प्रवाहस् तथैव वः
आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते । कदाचिद् एवं सर्गश्रीर् मिश्रामिश्रा च वर्धते
तस्मिन् मृतिमुहूर्ते ते प्रतिभानम् उपागतम् । एतज् जालम् असद्रूपं चिद्भागे सद् इव स्थितम्
यथा स्वप्नमुहूर्ते ऽन्तस् संवत्सरशतक्रमः । यथा सङ्कल्पनिर्माणे जीवितान् मरणं पुनः
यथा गन्धर्वनगरे कुड्यमण्डपकुट्टनम् । यथा नौयानसंरम्भे वृक्षपर्वतचोपनम्
यथा स्वधातुसङ्क्षोभे पुरपर्वतनर्तनम् । यथा समञ्जसं स्वप्ने स्वशिरःपरिकर्तनम्
मिथ्यैवेयम् इह प्रौढा भ्रान्तिर् आततरूपिणी । वस्तुतस् तु न जातो ऽसि न मृतो ऽसि कदाचन
शुद्धविज्ञानरूपस् त्वं शान्तम् आत्मनि तिष्ठसि । पश्यसीवैतद् अखिलं न च पश्यसि किञ्चन
सर्वात्मकतया नित्यं प्रकचस्य् आत्मनात्मनि । महामणिर् इवोदार आलोक इव भासुरः
वस्तुतस् तु न भूपीठम् इदम् न च भवान् अयम् । न चेमे गिरयो ग्रामा न चेह न च वै वयम्
गिरिग्रामकविप्रस्य मण्डपाकाशके किल । तल् लीलापतिराज्याढ्यं जगद् आभाति भासुरम्
तत्र लीलाराजधानीमण्डपो मण्डिताकृतिः । भाति तस्योदरे व्योम्नि तवेदं विततं जगत्
यस्मिञ् जगति गेहे ऽन्तर् यस्मिन् वयम् इह स्थिताः । एवं तेषां मण्डपानां व्योम व्योमैव निर्मलम्
तेषु मण्डपखेष्व् अस्ति न मही न च पत्तनम् । न वनानि व शैलौघा न मेघसरिदर्णवाः
केवलं तत्र निश्शून्ये विहरन्ति गृहे जनाः । न पश्यन्ति जगन् नापि पार्थिवान् न च भूधरान्
एवं चेत् तत् कथं देवि ममेहानुचरा इमे । सम्पन्ना आत्मना सन्ति ते किम् आत्मनि नाथवा
जगत् स्वप्नार्थवद् भाति तत्र स्वप्ने नवाद्रयः । कथम् आत्मनि सत्यास् स्युर् नासत्या वेति मे वद
राजन् विदितवेद्येषु शुद्धबोधैकरूपिषु । न किञ्चिद् एतत् सद्रूपं चिद्व्योमात्मसु जागतम्
शुद्धबोधात्मनो भाति कुतो नाम जगद्भ्रमः । रज्ज्वां सर्पभ्रमे शान्ते पुनस् सर्पभ्रमः कुतः
असद्भाते परिज्ञाते कुतस् सत्ता जगद्भ्रमे । परिज्ञाते मरुजले पुनर् जलमतिः कुतः
स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणे कुतः । स्वस्वप्ने स्वप्नमृतिभीर् अमृतस्यैव जायते
बुद्धस्य शुद्धस्य शरन्नभश्श्रीस्वच्छावदातस्य घनाशयस्य । अहं जगच् चेति कुशब्दकार्थवर्जं यद् अस्त्य् अङ्गनवाचिकं तत्
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
यस् त्व् अबुद्धमतिर् मूढो रूढो न वितते पदे । वज्रसारम् इदं तस्य जगद् अस्त्य् असद् एव सत्
यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः । असद् एव सदाकारं तथा मूढमतेर् जगत्
ताप एव यथा वारि मृगाणां भ्रमकारणम् । असत्यम् एव सत्याभं तथा मूढधियां जगत्
यथा स्वप्ने मृतिर् जन्तोर् असत्या सत्यरूपिणी । नार्थक्रियाकरी भाति तथेदं दुर्विदां जगत्