किल ब्राह्मणगेहान्तर् जीवस् ते मद्वरात् स्थितः । तत्रैव तस्य भूपीठं तस्मिंश् च निजमण्डपः
तस्यैव च गृहस्यान्तर् इदं संसारमण्डलम् । तत्रैवेदं तव गृहं स्थितम् आरम्भमन्थरम्
तत्रैव चेतसि तव निर्मलाकाशनिर्मले । प्रतिभासागतम् इदं व्यवहारभ्रमं ततम्
यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम । एतन्नामान एते मे पुराभूवन् पितामहाः
जातो ऽहम् अभवं बालो दशवर्शस्य मे पिता । परिव्राड् विपिनं यात इह राज्ये ऽभिषिच्य माम्
ततो दिग्विजयं कृत्वा कृत्वा राज्यम् अकण्टकम् । अमीभिर् मन्त्रिभिः पौरैः पालयामि वसुन्धराम्
यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः । वयसस् समतीतानि मम वर्षाणि सप्ततिः
इदं परबलं प्राप्तं मम दारुणविग्रहम् । युद्धं कृत्वेदम् आयातो गृहम् अस्मि यथास्थितम्
इमे देव्यौ गृहं प्राप्ते ममैते पूजयाम्य् अहम् । पूजिता हि प्रयच्छन्ति देवतास् स्वं समीहितम्
ममेयम् एतयोर् एका ज्ञानं जातिस्मृतिप्रदम् । इह दत्तवती देवी भाब्जस्येव विकासनम्
इदानीं कृतकृत्यो ऽस्मि जातो ऽस्मि गतसंशयः । शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
इतीयम् आतता भ्रान्तिर् भवतो भूरिसम्भ्रमा । नानाहारविहाराढ्या सलोकान्तरसञ्चरा
यस्मिन्न् एव मुहूर्ते त्वं मृतिम् अभ्यागतः पुरा । तदैव प्रतिभैषा ते स्वयम् अभ्युदिता हृदि
एकाम् आवर्तवलनां त्यक्त्वाधत्ते यथापराम् । क्षिप्रम् एव नदीवाहश् चित्प्रवाहस् तथैव वः
आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते । कदाचिद् एवं सर्गश्रीर् मिश्रामिश्रा च वर्धते
तस्मिन् मृतिमुहूर्ते ते प्रतिभानम् उपागतम् । एतज् जालम् असद्रूपं चिद्भागे सद् इव स्थितम्
यथा स्वप्नमुहूर्ते ऽन्तस् संवत्सरशतक्रमः । यथा सङ्कल्पनिर्माणे जीवितान् मरणं पुनः
यथा गन्धर्वनगरे कुड्यमण्डपकुट्टनम् । यथा नौयानसंरम्भे वृक्षपर्वतचोपनम्
यथा स्वधातुसङ्क्षोभे पुरपर्वतनर्तनम् । यथा समञ्जसं स्वप्ने स्वशिरःपरिकर्तनम्
मिथ्यैवेयम् इह प्रौढा भ्रान्तिर् आततरूपिणी । वस्तुतस् तु न जातो ऽसि न मृतो ऽसि कदाचन
शुद्धविज्ञानरूपस् त्वं शान्तम् आत्मनि तिष्ठसि । पश्यसीवैतद् अखिलं न च पश्यसि किञ्चन
सर्वात्मकतया नित्यं प्रकचस्य् आत्मनात्मनि । महामणिर् इवोदार आलोक इव भासुरः
वस्तुतस् तु न भूपीठम् इदम् न च भवान् अयम् । न चेमे गिरयो ग्रामा न चेह न च वै वयम्
गिरिग्रामकविप्रस्य मण्डपाकाशके किल । तल् लीलापतिराज्याढ्यं जगद् आभाति भासुरम्
तत्र लीलाराजधानीमण्डपो मण्डिताकृतिः । भाति तस्योदरे व्योम्नि तवेदं विततं जगत्
यस्मिञ् जगति गेहे ऽन्तर् यस्मिन् वयम् इह स्थिताः । एवं तेषां मण्डपानां व्योम व्योमैव निर्मलम्
तेषु मण्डपखेष्व् अस्ति न मही न च पत्तनम् । न वनानि व शैलौघा न मेघसरिदर्णवाः
केवलं तत्र निश्शून्ये विहरन्ति गृहे जनाः । न पश्यन्ति जगन् नापि पार्थिवान् न च भूधरान्
एवं चेत् तत् कथं देवि ममेहानुचरा इमे । सम्पन्ना आत्मना सन्ति ते किम् आत्मनि नाथवा
जगत् स्वप्नार्थवद् भाति तत्र स्वप्ने नवाद्रयः । कथम् आत्मनि सत्यास् स्युर् नासत्या वेति मे वद