राजन् स्मर विवेकेन पूर्वजातिम् इमां स्वयम् । वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती
अथ हार्दतमोमाया पद्मस्य क्षयम् आययौ । सविकासं च हृदयं ज्ञप्तिस्पर्शाद् अथाभवत्
सस्मार पूर्ववृत्तान्तम् अन्तस्स्फुरद् इव स्थितम् । अन्यदेहैकराजत्वं लीलाविलसितान्वितम्
ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायत्नविजृम्भितम् । आत्मोदन्तं बभूवासाव् उह्यमान इवार्णवे
उवाचात्मनि संसारे बत मायेयम् आतता । परिज्ञाता प्रसादेन देव्योर् इह मयाधुना
हे देव्यौ किम् इदं नाम दिनम् एकं मृतस्य मे । गतम् अद्येह यातानि वयो वर्षाणि सप्ततिः
स्मराम्य् अनेककार्याणि स्मरामि प्रपितामहम् । स्मरामि बाल्यं तारुण्यं मित्रबन्धुपरिच्छदम्
राजन् मृतिमहामोहमूर्छायास् समनन्तरम् । तस्मिंल् लोकान्तरे ऽतीते तस्मिन्न् एव मुहूर्तके
तस्मिन्न् एव गृहे ऽथास्मिन् नैव वेत्स्य् अथ वच्मि ते । अयं तस्य गृहस्यान्तर् व्योमन्य् एव किल स्थितः
गिरिग्रामकविप्रस्य गृहे ऽन्तर् भूपमण्डपः । तस्यान्तर् इदम् आभाति प्रत्येकं च जगद्गृहम्
किल ब्राह्मणगेहान्तर् जीवस् ते मद्वरात् स्थितः । तत्रैव तस्य भूपीठं तस्मिंश् च निजमण्डपः
तस्यैव च गृहस्यान्तर् इदं संसारमण्डलम् । तत्रैवेदं तव गृहं स्थितम् आरम्भमन्थरम्
तत्रैव चेतसि तव निर्मलाकाशनिर्मले । प्रतिभासागतम् इदं व्यवहारभ्रमं ततम्
यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम । एतन्नामान एते मे पुराभूवन् पितामहाः
जातो ऽहम् अभवं बालो दशवर्शस्य मे पिता । परिव्राड् विपिनं यात इह राज्ये ऽभिषिच्य माम्
ततो दिग्विजयं कृत्वा कृत्वा राज्यम् अकण्टकम् । अमीभिर् मन्त्रिभिः पौरैः पालयामि वसुन्धराम्
यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः । वयसस् समतीतानि मम वर्षाणि सप्ततिः
इदं परबलं प्राप्तं मम दारुणविग्रहम् । युद्धं कृत्वेदम् आयातो गृहम् अस्मि यथास्थितम्
इमे देव्यौ गृहं प्राप्ते ममैते पूजयाम्य् अहम् । पूजिता हि प्रयच्छन्ति देवतास् स्वं समीहितम्
ममेयम् एतयोर् एका ज्ञानं जातिस्मृतिप्रदम् । इह दत्तवती देवी भाब्जस्येव विकासनम्
इदानीं कृतकृत्यो ऽस्मि जातो ऽस्मि गतसंशयः । शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
इतीयम् आतता भ्रान्तिर् भवतो भूरिसम्भ्रमा । नानाहारविहाराढ्या सलोकान्तरसञ्चरा
यस्मिन्न् एव मुहूर्ते त्वं मृतिम् अभ्यागतः पुरा । तदैव प्रतिभैषा ते स्वयम् अभ्युदिता हृदि
एकाम् आवर्तवलनां त्यक्त्वाधत्ते यथापराम् । क्षिप्रम् एव नदीवाहश् चित्प्रवाहस् तथैव वः
आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते । कदाचिद् एवं सर्गश्रीर् मिश्रामिश्रा च वर्धते
तस्मिन् मृतिमुहूर्ते ते प्रतिभानम् उपागतम् । एतज् जालम् असद्रूपं चिद्भागे सद् इव स्थितम्
यथा स्वप्नमुहूर्ते ऽन्तस् संवत्सरशतक्रमः । यथा सङ्कल्पनिर्माणे जीवितान् मरणं पुनः
यथा गन्धर्वनगरे कुड्यमण्डपकुट्टनम् । यथा नौयानसंरम्भे वृक्षपर्वतचोपनम्
यथा स्वधातुसङ्क्षोभे पुरपर्वतनर्तनम् । यथा समञ्जसं स्वप्ने स्वशिरःपरिकर्तनम्
मिथ्यैवेयम् इह प्रौढा भ्रान्तिर् आततरूपिणी । वस्तुतस् तु न जातो ऽसि न मृतो ऽसि कदाचन