यद् एवाम्बु स आवर्तो न त्व् अस्त्य् आवर्त वस्तुसत् । दृष्ट्वैवास्ते दृश्यम् इव दृश्यं न त्व् अस्ति वस्तुसत्
चिद्व्योम्नो भूतनभसि कचनं यन् मणेर् इव । तज् जगद् भाति नानात्मरत्नं श्वभ्रम् इवाम्बरे
मद्बुद्धार्थो जगच्छब्दो विद्यते परमं पदम् । त्वद्बुद्धार्थस् तु नास्त्य् एव त्वमहंशब्दकाव् अपि
तस्माल् लीलासरस्वत्याव् आकाशवपुषौ स्थिते । सर्वगे परमात्माच्छे सर्वत्राप्रतिघे ऽनघे
यत्र तत्र तदा व्योम्नि यथाकाशं यथेप्सितम् । उदयं कुरुतस् तेन तद्गृहे ते स्थितिं गते
सर्वत्र सम्भवति चिद्गगनं तदन्तस् तद्वेदनं कलनम् आमननं विसारि । तच् चातिवाहिकम् इहाहुर् अकुड्यम् एव देहं कथं क इव तं वद किं रुणद्धि
तयोः प्रविष्टयोर् देव्योः पद्मसद्म बभूव तत् । चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम्
कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् । तत्प्रभावेण निद्रालुनृपेतररणाङ्गनम्
सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् । सवसन्तं वनम् इव फुल्लं प्रातर् इवाम्बुजम्
तयोर् देहप्रभापूरैश् शशिनिष्ष्यन्दशीतलैः । आह्लादितो ऽसौ बुबुधे राजोक्षित इवामृतैः
आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् । मेरुशृङ्गद्वये लीनं चन्द्रद्वयम् इवोदितम्
निमेषम् इव सञ्चिन्त्य स विस्मितमना नृपः । उत्तस्थौ शयनाच् छेषाद् इव चक्रगदाधरः
परिसम्यमितालम्बमाल्यहारवराम्बरः । पुष्पोत्कर इवोत्फुल्लं जग्राह कुसुमाञ्जलिम्
उपधानप्रदेशस्थात् स्वयं पटलकोदरात् । बद्धपद्मासनो भूमौ भूत्वोवाचेदम् आनतः
जयतां जन्मदौस्स्थित्यदाहदोषशशिप्रभे । देव्यौ बाह्यान्तरतमोविद्रावणरविप्रभे
तयोर् उक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् । तीरद्रुमो विकसितं पद्मिन्योः पद्मयोर् इव
लीलायै भूपजन्माथ वक्तुं मन्त्रिणम् ईश्वरी । बोधयाम् आस पार्श्वस्थं सङ्कल्पेन सरस्वती
प्रबुद्धो ऽप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् । तयोः पादेषु सन्त्यज्य विवेश पुरतो नतः
उवाच देवी हे राजन् कस् त्वम् कस्य सुतः कदा । इह जात इति श्रुत्वा स मन्त्री वाक्यम् अब्रवीत्
देव्यौ युष्मत्प्रसादो ऽयं भवत्योर् अपि यत् पुरः । वक्तुं शक्नोमि तद् इदं श्रूयतां जन्म मत्प्रभोः
आसीद् इक्ष्वाकुवंशोत्थो राजा राजीवलोचनः । श्रीमत्कुन्दरथो नाम दोश्छायाच्छादितावनिः
तस्याभूद् इन्दुवदनः पुत्रो भद्ररथाभिधः । तस्य विश्वरथः पुत्रस् तस्य पुत्रो बृहद्रथः
तस्य सिन्धुरथः पुत्रस् तस्य शैलरथस् सुतः । तस्य कामरथः पुत्रस् तस्य पुत्रो महारथः
तस्य विष्णुरथः पुत्रस् तस्य पुत्रः कलारथः । तस्य सूर्यरथः पुत्रस् तस्य पुत्रो नभोरथः
अयम् अस्मत्प्रभुस् तस्य पुत्रः पूर्णामलद्युतेः । अमृतापूरितरथः क्षीरोदस्येव चन्द्रमाः
महद्भिः पुण्यसम्भारैर् विदूरथ इति श्रुतः । जातो मातुस् सुमित्राया गौर्या गुह इवापरः
पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः । पालयत्य् एष भूपीठं ततःप्रभृति धर्मतः
भवन्त्याव् अद्य सम्प्राप्ते फलिते सुकृतद्रुमे । देव्यौ दीर्घतपःक्लेशशतदुष्प्रापदर्शने
इत्य् अयं वसुधाधीशो विदूरथ इति श्रुतः । अद्य युष्मत्प्रसादेन परां पावनतां गतः
इत्य् उक्त्वा संस्थिते तूष्णीं मन्त्रिण्य् अवनिपे तथा । कृताञ्जलौ नतमुखे बद्धपद्मासने ऽवनौ