अद्यत्वे ते हि ये जीवास् तेषां मरणजन्मसु । स्मृतिः कारणताम् एति मोक्षाभाववशाद् इह
जीवो हि मृतिमूर्छान्ते यद् अन्तः प्रोन्मिषन्न् इव । अनुन्मिषित एवास्ते तत् प्रधानम् उदाहृतम्
तद् व्योम प्रकृतिस् सोक्ता तद् अव्यक्तं जडाजडम् । संसृतेर् अस्मृतेश् चैव क्रम एष भवोदये
बोधोन्मुखत्वे हि महत् तत् प्रबुद्धं यदा भवेत् । तदा तन्मात्रदिक्कालक्रियाभूताद्य् उदेति खात्
तद् एवोच्छूनम् आबुद्धं भवतीन्द्रियपञ्चकम्। तद् एव बुध्यते देहं स एषो ऽस्त्य् आतिवाहिकः
चिरकालप्रत्ययतः कल्पनापरिपीवरः । आधिभौतिकताबोधम् आधत्ते ऽथैष एव वः
यदैव म्रियते जन्तुः पश्यत्य् आशु तदैव सः । तत्रैव भुवनाभोगम् इदम् इत्थम् अवस्थितम्
व्योम्नैवानुभवत्य् अच्छम् अहं जगद् इति भ्रमम् । व्योमरूपं व्योमरूपी जीवो जात इवात्मवान्
पुरपत्तनशैलार्कतारानिकरदन्तुरम् । जरामरणवैक्लव्यव्याधिसङ्कटकोटरम्
सभावाभावसंरम्भस्थूलसूक्ष्मचलाचलम् । साद्रिद्यूर्वीनदीशाहोरात्रिकल्पक्षयोदयम्
अहं जातो ऽमुना पित्रा किलात्रेत्य् आत्तनिश्चयम् । इयं माता धनम् इदं ममेत्य् उदितवासनम्
सुकृतं दुष्कृतं चेति ममेति कृतकल्पनम् । बालो ऽभूवम् अहं त्व् अद्य युवेति विलसन् हृदि
प्रत्येकम् एवम् उदितस् संसारवनषण्डकः । ताराकुसुमितो नीलमेघचञ्चलपल्लवः
चरन्नरमृगानीकस् सुरासुरविहङ्गमः । सालोककौसुमरजोमायागहनकुञ्जकः
अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः । चित्तपुष्करबीजे ऽन्तर् निलीनानुभवाङ्कुरः
यत्रैष म्रियते जीवस् तत्रैवं पश्यति क्षणात् । प्रत्येकम् उदितेष्व् एवं जगत्षण्डेषु भूरिशः
कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् । मेर्वब्धिमण्डलद्वीपलोकान्तरदृशं गताः
याता यास्यन्ति यान्त्य् एता दृष्तयो ऽनष्टरूपिणि । या ब्रह्मण्य् उपबृंहाढ्ये ताः के गणयितुं क्षमाः
एवं कुड्यमयं विश्वं नास्त्य् एव मननाद् ऋते । मननं च खम् एवातस् तद् इदानीं विचारय
यद् एव तच् चिदाकाशं तद् एव परमं स्मृतं । मननं च चिदाकाशं तद् एव परमं पदम्
यद् एवाम्बु स आवर्तो न त्व् अस्त्य् आवर्त वस्तुसत् । दृष्ट्वैवास्ते दृश्यम् इव दृश्यं न त्व् अस्ति वस्तुसत्
चिद्व्योम्नो भूतनभसि कचनं यन् मणेर् इव । तज् जगद् भाति नानात्मरत्नं श्वभ्रम् इवाम्बरे
मद्बुद्धार्थो जगच्छब्दो विद्यते परमं पदम् । त्वद्बुद्धार्थस् तु नास्त्य् एव त्वमहंशब्दकाव् अपि
तस्माल् लीलासरस्वत्याव् आकाशवपुषौ स्थिते । सर्वगे परमात्माच्छे सर्वत्राप्रतिघे ऽनघे
यत्र तत्र तदा व्योम्नि यथाकाशं यथेप्सितम् । उदयं कुरुतस् तेन तद्गृहे ते स्थितिं गते
सर्वत्र सम्भवति चिद्गगनं तदन्तस् तद्वेदनं कलनम् आमननं विसारि । तच् चातिवाहिकम् इहाहुर् अकुड्यम् एव देहं कथं क इव तं वद किं रुणद्धि
तयोः प्रविष्टयोर् देव्योः पद्मसद्म बभूव तत् । चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम्
कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् । तत्प्रभावेण निद्रालुनृपेतररणाङ्गनम्
सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् । सवसन्तं वनम् इव फुल्लं प्रातर् इवाम्बुजम्
तयोर् देहप्रभापूरैश् शशिनिष्ष्यन्दशीतलैः । आह्लादितो ऽसौ बुबुधे राजोक्षित इवामृतैः