किं चित्तम् एतद् भवति किं वा भवति नो कथम् । कथम् एवंमयाद् रूपान् नान्यद् भवति वा क्षणात्
प्रत्येकम् एव यच् चित्तं तद् एवंरूपशक्तिमत् । पृथक् प्रत्येकम् उदिताः प्रतिचित्तं जगद्भ्रमाः
क्षणकल्पजगत्सङ्गात् समुद्यन्ति गलन्ति च । निमेषात् कस्यचित् कल्पात् कस्यचित् तत् क्रमं शृणु
मरणादेर् महामोहाद् अनन्तरम् इयं स्थितिः । क्षणाच् चिराद् वोदेत्य् आशु तत्रेमं त्वं क्रमं शृणु
मरणादिमयी मूर्छा प्रत्येकेनानुभूयते । यैवैतां विद्धि सुमते महाप्रलययामिनीम्
तदन्ते तनुते सर्गं सर्व एव पृथक् पृथक् । सहजस्वप्नसङ्कल्पसम्भ्रमाचलवृत्तिवत्
महाप्रलयरात्र्यन्ते विराडात्मा मनोवपुः । यथेदं तनुते तद्वत् प्रत्येकं मृत्यनन्तरम्
मृतेर् अनन्तरं सर्गो यथा स्मृत्यानुभूयते । विराट् तथानुभवति नातो विश्वम् अकारणम्
महति प्रलये राम सर्वे हरिहरादयः । विदेहमुक्ततां यान्ति स्मृतेः क इव सम्भवः
अस्मदादिप्रबुद्धात्मा किलावश्यं विमुच्यते । कथं भवन्तु वामुक्ता विदेहाः पद्मजादयः
अद्यत्वे ते हि ये जीवास् तेषां मरणजन्मसु । स्मृतिः कारणताम् एति मोक्षाभाववशाद् इह
जीवो हि मृतिमूर्छान्ते यद् अन्तः प्रोन्मिषन्न् इव । अनुन्मिषित एवास्ते तत् प्रधानम् उदाहृतम्
तद् व्योम प्रकृतिस् सोक्ता तद् अव्यक्तं जडाजडम् । संसृतेर् अस्मृतेश् चैव क्रम एष भवोदये
बोधोन्मुखत्वे हि महत् तत् प्रबुद्धं यदा भवेत् । तदा तन्मात्रदिक्कालक्रियाभूताद्य् उदेति खात्
तद् एवोच्छूनम् आबुद्धं भवतीन्द्रियपञ्चकम्। तद् एव बुध्यते देहं स एषो ऽस्त्य् आतिवाहिकः
चिरकालप्रत्ययतः कल्पनापरिपीवरः । आधिभौतिकताबोधम् आधत्ते ऽथैष एव वः
यदैव म्रियते जन्तुः पश्यत्य् आशु तदैव सः । तत्रैव भुवनाभोगम् इदम् इत्थम् अवस्थितम्
व्योम्नैवानुभवत्य् अच्छम् अहं जगद् इति भ्रमम् । व्योमरूपं व्योमरूपी जीवो जात इवात्मवान्
पुरपत्तनशैलार्कतारानिकरदन्तुरम् । जरामरणवैक्लव्यव्याधिसङ्कटकोटरम्
सभावाभावसंरम्भस्थूलसूक्ष्मचलाचलम् । साद्रिद्यूर्वीनदीशाहोरात्रिकल्पक्षयोदयम्
अहं जातो ऽमुना पित्रा किलात्रेत्य् आत्तनिश्चयम् । इयं माता धनम् इदं ममेत्य् उदितवासनम्
सुकृतं दुष्कृतं चेति ममेति कृतकल्पनम् । बालो ऽभूवम् अहं त्व् अद्य युवेति विलसन् हृदि
प्रत्येकम् एवम् उदितस् संसारवनषण्डकः । ताराकुसुमितो नीलमेघचञ्चलपल्लवः
चरन्नरमृगानीकस् सुरासुरविहङ्गमः । सालोककौसुमरजोमायागहनकुञ्जकः
अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः । चित्तपुष्करबीजे ऽन्तर् निलीनानुभवाङ्कुरः
यत्रैष म्रियते जीवस् तत्रैवं पश्यति क्षणात् । प्रत्येकम् उदितेष्व् एवं जगत्षण्डेषु भूरिशः
कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् । मेर्वब्धिमण्डलद्वीपलोकान्तरदृशं गताः
याता यास्यन्ति यान्त्य् एता दृष्तयो ऽनष्टरूपिणि । या ब्रह्मण्य् उपबृंहाढ्ये ताः के गणयितुं क्षमाः
एवं कुड्यमयं विश्वं नास्त्य् एव मननाद् ऋते । मननं च खम् एवातस् तद् इदानीं विचारय
यद् एव तच् चिदाकाशं तद् एव परमं स्मृतं । मननं च चिदाकाशं तद् एव परमं पदम्