एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी
सम्भ्रमाभ्राद्रिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खदा कुभयभोगिनाम्
हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोस् सौजन्याम्भोजचन्द्रिका
इन्द्रायुधवद् आलोलनानारागमनोहरा । लोला तडिद् इवोत्पन्नध्वंसिनी जडसंश्रया
चपला वर्जिता रत्या नकुली नकुलीनजा । विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका
लहरीवैकरूपेण क्षणं पदम् अकुर्वती । चला दीपशिखेवातिदुर्ज्ञेयागतिगोचरा
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी । खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया
नानयोपहतार्थिन्या दुराधिपरिपीनया । पश्याम्य् अभव्यया लक्ष्म्या किञ्चिद् दुःखाद् ऋते सुखम्
द्वारेणोत्सारिता लक्ष्मीः पुनर् एति तमोऽरिणा । अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा
मनोरमा कर्षति चित्तवृत्तिं कदर्यसाध्या क्षणभङ्गुरा च । व्यालावलीगर्भनिवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् । उन्मत्तम् इव सन्त्यज्य यात्य् अकाण्डे शरीरकम्
विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानाम् आयुर् आयासकारणम्
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वस्ता आयुस् तेषां सुखायते
वयं परिमिताकारपरिनिष्ठितनिश्चयाः । संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः
युज्यते वेष्टनं वायाव् आकाशस्यावखण्डनम् । ग्रथनं च तरङ्गाणाम् आस्था नायुषि युज्यते
पेलवं शरदीवाभ्रम् अस्नेहम् इव दीपकम् । तरङ्गकम् इवालोलं गतम् एवोपलक्ष्यते
तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदे । ग्रहीतुम् आस्थां बध्नामि न त्व् आयुषि गतस्थितौ
अविश्रान्तमनाश् शून्यम् आयुर् आततम् ईहते । दुःखायैव विमूढो ऽन्तर् गर्भम् अश्वतरी यथा
संसारसंसृताव् अम्भः फेनो ऽस्मिन् सर्गसागरे । कायवल्ल्यां रसो राजञ् जीवितं मे न रोचते
प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते । पराया निर्वृतेस् स्थानं यत् तज् जीवितम् उच्यते
तरवो ऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति
जातास् त एव जगति जन्तवस् साधुजीविताः । ये पुनर् नेह जायन्ते शेषा जानीत गर्दभाः
भारो ऽविवेकिनश् शास्त्रं भारो ज्ञानं च रागिणः । अशान्तं च मनो भारो भारो ऽनात्मविदो वपुः
रूपम् आयुर् मनो बुद्धिर् अहङ्कारस् तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः
अविश्रान्तमनःपूर्णम् आपदां परमास्पदम् । नीडो रोगविहङ्गानाम् आयुर् आयासनं दृढम्
प्रत्यहं खेदम् उत्सृज्य शनैर् अलम् अनारतम् । आश्व् एव जन्मनश् श्वभ्रं कालेन विनिखन्यते
शरीरबिलविश्रान्तैर् विषदाहप्रदायिभिः । रोगैर् निपीयते रौद्रैर् व्यालैर् इव वनानिलः
प्रसुवानैर् अवच्छेदं तुच्छैर् अन्तरवासिभिः । दुःखैर् आकृष्यते क्रूरैर् घुणैर् इव जरद्द्रुमः
नूनं निगिरणायाशु घनगर्वम् अनारतम् । आखुर् मार्जारकेणेव मरणेनावलोक्यते