आकाशभूधरनिकुञ्जगुहान्तराल पिण्डोपमस्थिततमोऽम्बुदपीठपूरम् । व्यालोलभूतरभसाकुलकल्पवात व्याधूतलोककरकाण्डकवाटकल्पम्
एवं निशाचराचारचिरघोरे रणाङ्गने । उल्लसन्तीषु वेतालक्ष्वेडासूड्डामरारवैः
नभःप्रेक्षकसेनासु प्रगतासु यथागतम् । विश्रान्तेष्व् इव भूपेषु रथादिषु निजास्पदे
महासरोजल इव जने दृश्ये रणाङ्गने । अहनीव जनाचारे स्थिते श्यामाचरेहिते
हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे । लाभोत्सवोच्छलच्चित्ते भूतसङ्घे प्रनृत्यति
निश्शब्दशान्तसञ्चारे निद्रामुद्रे ककुब्गणे । लीलापतिर् उदारात्मा किञ्चित् खिन्नमना इव
प्रातःकार्यं विचार्याशु मन्त्रिभिर् मन्त्रकोविदैः । दीर्घचन्द्रसमाकारे शयने हिमशीतले
चन्द्रोदयनिभे वासगृहे शिशिरकोटरे । निद्रां मुहूर्तम् अगमन् मुद्रितेक्षणपुष्करः
अथ ते ललने व्योम तत् परित्यज्य तद् गृहम् । रन्ध्रैर् विविशतुर् वातलेखो ऽब्जमुकुलं यथा
इयन्मात्रम् इदं स्थूलं शरीरं वाग्विदां वर । रन्ध्रेण तन्तुतनुना कथं प्रविशति प्रभो
आधिभौतिकदेहो ऽयम् इति यस्य मतिभ्रमः । तस्यासाव् अणुरन्ध्रेण गन्तुं शक्नोति नानघ
रोधितो ऽहम् अनेनेति न माम्य् अत्रेति यस्य धीः । अनुभूतानुभविनी भवतीत्य् अनुभूयते
येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः । कथं भवति पश्चार्धगमनोन्मुखचेतनः
वारि नैवोर्ध्वम् आयाति नाधो गच्छति पावकः । या यथैव प्रवृत्ता चित् सा तथैवावतिष्ठते
छायायाम् उपविष्टस्य कुतस् तापानुभूतयः । अन्यसंवेदनो ऽन्योऽर्थः केनचिन् नानुभूयते
या यथा सम्प्रवृत्ता चित् सा तथैव स्थितिं गता । परमेण प्रयत्नेन नीयते ऽन्यां दशां पुनः
सर्पैकप्रत्ययो रज्ज्वाम् असत्यप्रत्ययाद् बलात् । निवर्तते ऽन्यथा त्व् एष तिष्ठत्य् एव यथास्थितम्
यथा संवित् तथा चित्तं यथा चित्तं तथेहितम् । बालं प्रत्य् अपि संसिद्धम् एतत् को नानुभूयते
यः पुनस् स्वप्नसङ्कल्पपुरुषप्रतिमाकृतिः । आकाशमात्रकाकारस् स कथं केन रोध्यते
चित्तमात्रशरीरं तु सर्वस्यैव हि सर्वतः । विद्यते वेदनात्वे तत् क्वचिद् एतीव हृद्गतात्
यथाभिमतम् एवास्य भवत्य् अस्तमयोदयम् । आदिसर्गे स्वभावोत्थं पश्चाद् द्वैतैक्यभावनम्
चित्ताकाशं चिदाकाशम् आकाशं च तृतीयकम् । विद्ध्य् एतत् त्रयम् एवैकम् अविनाभावतावशात्
एतच् चित्तशरीरं त्वं विद्धि सर्वगतोदयम् । यथा संवेदनेच्छत्वाद् यथा संवेदनोदयम्
वसति त्रसरेण्वन्तर् नीयते गगनोदरे । लीयते ऽङ्कुरकोशेषु रसीभवति पल्लवे
उल्लसत्य् अम्बुवीचित्वे प्रनृत्यति शिलोदरे । प्रवर्षत्य् अम्बुदो भूत्वा शिलीभूयावतिष्ठते
यथेच्छम् अम्बरे याति जठरे ऽपि च भूभृताम् । अनन्तम् आकाशवपुर् धत्ते ऽथ परमाणुताम्
भवत्य् अद्रिवराधारो बद्धपीठो नभश्शिरः । देहस्यान्तर् बहिर् अपि दधद्वरतनूरुहम्
भवत्य् आकाशम् आधत्ते कोटीः पद्मजसद्मनाम् । अनन्यास् स्वात्मनाम्भोधिर् आवर्तरचन इव
अनुद्भिन्नप्रबोधो ऽसौ सर्गादौ चित्तदेहकः । आकाशात्मा महान् भूत्वा वेत्ति प्रकृतितां गतः
असत्यम् एव वारित्वं बुद्ध्वोदेतीव तत्तया । वन्ध्यापुत्रो ऽयम् अस्मीति यथा स्वप्नभ्रमे नरः