तमांस्य् अपीतकार्याणि भूतानि चाखिलान्य् अलम् । पयांसीव विसेरूनि प्रसृतानि दिशं प्रति
आसीद् रणाङ्गनं गायद्वेतालकुलसङ्कुलम् । क्वणत्कङ्कालकण्ठस्थकङ्ककाकोलकेलिमत्
रथकाष्टचितिज्वालासताराम्बरभासुरम् । पचत्पचपचाशब्दमेदोमांसमयानलम्
शवाङ्गास्थिस्फुटास्फोटलुठच्चितिचयोल्मुकम् । वेतालललनारब्धजललीलातिरोहितम्
श्वकाकयक्षवेतालतालकोलाहलोल्बणम् । समागमेन भूतानां समुड्डीनवनोपमम्
रक्तमांसवसामेदोहरणव्यग्रडाकिनम् । चर्वितासृग्वसामांसस्रवत्सृक्विपिशाचकम्
सभ्यमध्यचितालोकप्रकटासृक्शवव्रजम् । खरूपिकानीयमानाश्वसन्न्यस्तमहाशवम्
उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् । छमच्छमिविलापान्तं मेदोऽसृग्बाष्पसाम्बुदम्
वहद्रक्तनदीरंहोरूढभूचररूपिकम् । वेतालाकुलकङ्कालकर्षणाकुलकाककम्
मृतेभोदरमञ्जूषासुप्तवेतालबालकम् । विविक्तैकतरूद्देशपानक्रीडास्थराक्षसम्
मत्तवेतालकलहे चितालातरणोज्ज्वलम् । वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम्
रूपिकापेटके वेगरणद्रुटरुटारवम् । अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्किलि
तुङ्गवङ्गकलिङ्गाङ्गतङ्गनाङ्गलगत्खगम् । तारापातोपमभवत्संमुखज्वालरूपिकम्
पतद्वेतालसोल्लासमध्यस्थासृक्सुरूपिकम् । पिशाचाकर्णिताभ्यर्णयोगिनीगणगायनम्
प्रसृतान्त्रमहातन्त्रीप्रायसम्पन्नवादनम् । पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम्
रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् । क्वचिद्वेतालरक्षोभिर् अहनीवोन्नमद्रणम्
खरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् । नभस्सङ्घटितापूर्वभूतपेटकसङ्कटम्
अतिप्रयत्नापहृतम्रियमाणनराधिपम् । सुभक्षापेक्षियक्षेक्षाविक्षिप्तशवराशिमत्
शिवामुखानलशिखाखण्डैश् छमितनक्तगैः । समुड्डीननवाशोकपुष्पगुच्छम् इवाभितः
कबन्धकन्धराबद्धव्यग्रवेतालबालकम् । यक्षरक्षःपिशाचाजिकचदाकाशगोल्मुकम्
आकाशभूधरनिकुञ्जगुहान्तराल पिण्डोपमस्थिततमोऽम्बुदपीठपूरम् । व्यालोलभूतरभसाकुलकल्पवात व्याधूतलोककरकाण्डकवाटकल्पम्
एवं निशाचराचारचिरघोरे रणाङ्गने । उल्लसन्तीषु वेतालक्ष्वेडासूड्डामरारवैः
नभःप्रेक्षकसेनासु प्रगतासु यथागतम् । विश्रान्तेष्व् इव भूपेषु रथादिषु निजास्पदे
महासरोजल इव जने दृश्ये रणाङ्गने । अहनीव जनाचारे स्थिते श्यामाचरेहिते
हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे । लाभोत्सवोच्छलच्चित्ते भूतसङ्घे प्रनृत्यति
निश्शब्दशान्तसञ्चारे निद्रामुद्रे ककुब्गणे । लीलापतिर् उदारात्मा किञ्चित् खिन्नमना इव
प्रातःकार्यं विचार्याशु मन्त्रिभिर् मन्त्रकोविदैः । दीर्घचन्द्रसमाकारे शयने हिमशीतले
चन्द्रोदयनिभे वासगृहे शिशिरकोटरे । निद्रां मुहूर्तम् अगमन् मुद्रितेक्षणपुष्करः
अथ ते ललने व्योम तत् परित्यज्य तद् गृहम् । रन्ध्रैर् विविशतुर् वातलेखो ऽब्जमुकुलं यथा
इयन्मात्रम् इदं स्थूलं शरीरं वाग्विदां वर । रन्ध्रेण तन्तुतनुना कथं प्रविशति प्रभो