नागागस्यूतहेत्योघवृक्षांशुकुसुमाकुलम् । कङ्ककृष्टान्त्ररशनावृन्दजालकिताम्बरम्
असृक्सरोवरध्वस्तपताकानलिनीगणम् । रक्तकर्दमनिर्मग्ननराहूतसुहृज्जनम्
करीन्द्रकुणपागारनिर्यद्भीतजनेक्षितम् । हेतिलूनलतैर् वृक्षैस् सन्दिग्धोग्रकबन्धकम्
असृङ्नदीवहद्धस्तिकटकर्परनौगणम् । रक्तस्रोतस्स्फुरच्छुक्लवस्त्रदिण्डीरपिण्डकम्
सञ्चरन्निपतत्क्षिप्रमृत्युविच्छिन्नमानवम् । इतश् चेतश् च निपतत्कबन्धनवदानवम्
ऊर्ध्वस्थालक्ष्यचक्रौघछिन्नसैन्यद्रवज्जनम् । रक्तनिस्स्रावभाङ्कारहिक्कारार्धमृतारवम्
सिरामुखोल्लसद्रक्तधाराधौतव्रजत्खगम् । सुतालोत्तालवेतालतालताण्डवसङ्कटम्
पर्यस्तरथदार्वन्तर्वनान्तरितसद्भटम् । अन्तस्स्थसज्जीवभटस्यन्दिस्यन्दनभीतिदम्
रक्तकर्दमपूर्णास्यकिञ्चिज्जीवक्वणच्छवम् । किञ्चिज्जीवनरोद्ग्रीवकष्टदृष्टश्ववायसम्
एकामिषोग्रक्रव्यादयुद्धकोलाहलाकुलम् । एकामिषार्थयुद्धेहामृतक्रव्यादसङ्कुलम्
विवृत्तासङ्ख्याश्वद्विरदपुरुषाधीश्वररथप्रवृत्तास्तग्रीवप्रकृतिरुधिरोद्गारसुसरित् । रणोद्यानं मृत्योस् तद् अभवद् अशुष्कायुधलतं सशैलं कल्पान्ते जगद् इव विपर्यस्तम् अखिलम्
अथ वीर इवारक्तः कालेनास्तमितो रविः । शश्वत्तेजःपरिम्लानप्रतापो ऽब्धौ समुज्झितः
रणरक्तरुचिव्योमदर्पणप्रतिबिम्बिता । अह्नस् सूर्यशिरश्छेदे सन्ध्यालेखोदभूत् क्षणात्
भूपातालनभोदिग्भ्यः प्रलयाब्धिजलौघवत् । समाजग्मुस् तमस्ताला वेतालवलया इव
दृष्टं ध्वान्तासिदलिते दिननागेन्द्रमस्तके । सन्ध्यारागारुणाकीर्णं तारानिकरमौक्तिकम्
निस्सत्त्वेषु तमोऽन्धेषु सरस्स्व् अरसशालिषु । सङ्कोचम् आययुः पद्मा मृतानां हृदयेष्व् इव
मीलत्पक्षाः क्षणात् सुप्ताः कच्छव्रुडितकन्धराः । कुलायेषु खगा आसन् सर्वाङ्गेष्व् इव हेतयः
आसन्नचन्द्रसुभगालोकाः कुमुदपङ्क्तयः । उल्लसद्धृदया जाता वीरपक्षेष्व् इव श्रियः
रक्तवारिमयी सायसङ्गगुप्तशिलीमुखा । सङ्कुचद्वक्त्रपद्माभूद् रणभूमिर् इवाब्जिनी
उपर्य् अभूद् व्योमसरस् ताराकुमुदमण्डितम् । अधस् त्व् अभूद् वारिवियत् स्फुरत्कुमुदतारकम्
तमांस्य् अपीतकार्याणि भूतानि चाखिलान्य् अलम् । पयांसीव विसेरूनि प्रसृतानि दिशं प्रति
आसीद् रणाङ्गनं गायद्वेतालकुलसङ्कुलम् । क्वणत्कङ्कालकण्ठस्थकङ्ककाकोलकेलिमत्
रथकाष्टचितिज्वालासताराम्बरभासुरम् । पचत्पचपचाशब्दमेदोमांसमयानलम्
शवाङ्गास्थिस्फुटास्फोटलुठच्चितिचयोल्मुकम् । वेतालललनारब्धजललीलातिरोहितम्
श्वकाकयक्षवेतालतालकोलाहलोल्बणम् । समागमेन भूतानां समुड्डीनवनोपमम्
रक्तमांसवसामेदोहरणव्यग्रडाकिनम् । चर्वितासृग्वसामांसस्रवत्सृक्विपिशाचकम्
सभ्यमध्यचितालोकप्रकटासृक्शवव्रजम् । खरूपिकानीयमानाश्वसन्न्यस्तमहाशवम्
उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् । छमच्छमिविलापान्तं मेदोऽसृग्बाष्पसाम्बुदम्
वहद्रक्तनदीरंहोरूढभूचररूपिकम् । वेतालाकुलकङ्कालकर्षणाकुलकाककम्
मृतेभोदरमञ्जूषासुप्तवेतालबालकम् । विविक्तैकतरूद्देशपानक्रीडास्थराक्षसम्