शवसन्ततिसम्पूर्णं वहद्रक्तमहाह्रदम् । परिकूजनझाङ्कारपूर्णखिल्लीवनोपमम्
बृहद्रक्तसरित्स्रोतस्तरङ्गरवघर्घरम् । साक्रन्दावसृताहूतस्वत्राणव्यग्रमानवम्
मृतार्धमृतदेहौघरक्तौघस्रुतनिर्झरम् । सजीवनरपृष्ठस्थशवस्पन्दनभीतिदम्
करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् । विशीर्णरथसङ्घातजितच्छत्त्रमहावनम्
वहद्रक्तनदीरंहःप्रोह्यमानरथद्विपम् । शरशक्त्यृष्टिमुसुलगदाप्रासासिसङ्कुलम्
पर्याणाञ्चलसन्नाहकवचावृतभूतलम् । केतुचामरपट्टौघगुप्तशावशरीरकम्
स्फारस्फोटकतूणीरकुञ्जकूजत्समीरणम् । शरराशिपलाशौघतल्पसुप्तशवेश्वरम्
मौलिहाराङ्गदोद्द्योतचक्रचापवनावृतम् । श्वसृगालखगाकृष्टसान्द्रान्त्रदीर्घरज्जुकम्
रक्तक्षेत्रक्वणत्किञ्चिच्छेषजीवातिदन्तुरम् । रक्तकर्दमनिर्मग्नसजीवनरदुर्दुरम्
वराटकचयप्रेक्ष्यनिर्गताक्षिशतोच्चयम् । वहद्भुजौघकाष्टौघघोररक्तसरिच्छतम्
साक्रन्दबन्धुवलितमृतार्धमृतमानवम् । सर्वायुधरथाश्वेभपर्याणासञ्चरान्तरम्
नृत्यत्कबन्धदोर्दण्डषण्डकाननिताम्बरम् । मदमेदोवसागन्धपिण्डाक्तघ्राणकोटरम्
उत्फालार्धमृतेभाश्वमार्यमाणाल्पजीवितम् । वहद्रक्तनदीवीचीप्रहारहतदुन्दुभि
उह्यमानमृताश्वेभमकरासृक्सरिच्छटम् । म्रियमाणनरानीकफूत्कृतासृग्घनानिलम्
स्वल्पजीवशरापूर्णमुखहिक्काङ्कितस्वरम् । पिण्डहार्यवसागन्धवातात्तोत्पीडलोहितम्
उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् । निरधिष्ठितहस्त्यश्वपातितोद्यत्कबन्धकम्
रुदद्बन्धुसखिभ्रष्टशवक्षुब्धासृगुद्ध्वनि । मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम्
शवस्थानकृतोद्ग्रीवबन्धुकायपरीक्षणम् । शवहारखराकृष्टसम्पृक्तनरव्याकुलम्
केशशेवलवक्त्राब्जचक्रावर्तननर्तनम् । तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम्
प्राणान्तस्मृतपुत्रेष्टमातृदेवधनाभिधम् । हाहाहीहीतिकथितमर्मच्छेदनवेदनम्
अङ्गलग्नायुधोद्धारव्यग्रार्धमृतमानवम् । विदेशमृतसाक्रन्दहूनतङ्गनताजिकम्
म्रियमाणमिथोद्विष्टप्रारब्धरथसङ्गरम् । दन्तयुद्धासमर्थास्यस्मृतगेहेष्टदैवतम्
म्रियमाणपथलज्जशूराश्रितपलायनम् । अशङ्कितासृगावर्तनीतास्पदगमोत्सुकम्
मर्मच्छेदिशरव्रातव्यथाविहितहुङ्कृति । कबन्धबन्धप्रारब्धवेतालवलनाक्रमम्
उह्यमानध्वजच्छत्त्रचारुचामरपङ्कजम् । किरत्सन्ध्यारुणं दिक्षु तेजस्विरक्तपङ्कजम्
रथचक्रवनावर्तं रक्तार्णवम् इवाष्टमम् । पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम्
विपर्यस्तरथं भूमिकम्पभग्नपुरोपमम् । उत्पातवातनिर्धूतद्रुमं वनम् इवाततम्
कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् । अतिवृष्टिहतो देश इव प्रोच्छिन्नमानवम्
कालायःकुन्तवलितं भुसुण्डीमण्डलाकुलम् । मत्तनागशवाकारं सन्नतोमरमुद्गरम्
शिलाशिखरसञ्जाततालजालम् इवाततम् । पतद्रक्तनदीतीरजातकुन्तोन्नतद्रुमम्