अथ सेनाधिनाथाभ्यां विचार्य सह मन्त्रिभिः । दूताः परस्परं दत्ता युद्धं संह्रियताम् इति
ततश् श्रमवशान् मन्दपत्त्रशस्त्रपराक्रमैः । रणसंहरणं काले सर्वैर् एवोररीकृतम्
ततो महारथोत्तुङ्गकेतुप्रान्ते कृतास्पदम् । बलयोर् आरुरोहैक एको योधो ध्रुवो यथा
अंशुकं भ्रामयाम् आस सर्वदिङ्मण्डलेक्षितम् । द्याम् एव दीर्घम् इन्द्वंशुं युद्धं संह्रियताम् इति
ततो दुन्दुभयश् शेमुः प्रतिध्वनितदिङ्मुखाः । महाप्रलयसंशान्तौ पुष्करावर्तका इव
शरादिहेतिसरितो विस्तीर्णे गगनस्थले । प्रवृत्ताश् शोषम् आगन्तुं शारद्यस् सरितो यथा
योधदोर्द्रुमसञ्चारस् तनुताम् आययौ शनैः । भूकम्पान्ते वनस्पन्द इवावात इवार्णवः
विनिर्गन्तुं प्रववृते रणारण्याद् बलद्वयम् । वारिपूरश् चतुर्दिक्कं प्रलयैकार्णवाद् इव
उत्क्षिप्तमन्दरक्षीरसमुद्रवलनाकुलम् । सैन्यं प्रशमदावर्तं शनैस् साम्यम् उपाययौ
क्रमेणासीन् मुहूर्तेन विकटोदरभीषणम् । अगस्त्यपीतार्णववच् छून्यम् एव रणाङ्गनम्
शवसन्ततिसम्पूर्णं वहद्रक्तमहाह्रदम् । परिकूजनझाङ्कारपूर्णखिल्लीवनोपमम्
बृहद्रक्तसरित्स्रोतस्तरङ्गरवघर्घरम् । साक्रन्दावसृताहूतस्वत्राणव्यग्रमानवम्
मृतार्धमृतदेहौघरक्तौघस्रुतनिर्झरम् । सजीवनरपृष्ठस्थशवस्पन्दनभीतिदम्
करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् । विशीर्णरथसङ्घातजितच्छत्त्रमहावनम्
वहद्रक्तनदीरंहःप्रोह्यमानरथद्विपम् । शरशक्त्यृष्टिमुसुलगदाप्रासासिसङ्कुलम्
पर्याणाञ्चलसन्नाहकवचावृतभूतलम् । केतुचामरपट्टौघगुप्तशावशरीरकम्
स्फारस्फोटकतूणीरकुञ्जकूजत्समीरणम् । शरराशिपलाशौघतल्पसुप्तशवेश्वरम्
मौलिहाराङ्गदोद्द्योतचक्रचापवनावृतम् । श्वसृगालखगाकृष्टसान्द्रान्त्रदीर्घरज्जुकम्
रक्तक्षेत्रक्वणत्किञ्चिच्छेषजीवातिदन्तुरम् । रक्तकर्दमनिर्मग्नसजीवनरदुर्दुरम्
वराटकचयप्रेक्ष्यनिर्गताक्षिशतोच्चयम् । वहद्भुजौघकाष्टौघघोररक्तसरिच्छतम्
साक्रन्दबन्धुवलितमृतार्धमृतमानवम् । सर्वायुधरथाश्वेभपर्याणासञ्चरान्तरम्
नृत्यत्कबन्धदोर्दण्डषण्डकाननिताम्बरम् । मदमेदोवसागन्धपिण्डाक्तघ्राणकोटरम्
उत्फालार्धमृतेभाश्वमार्यमाणाल्पजीवितम् । वहद्रक्तनदीवीचीप्रहारहतदुन्दुभि
उह्यमानमृताश्वेभमकरासृक्सरिच्छटम् । म्रियमाणनरानीकफूत्कृतासृग्घनानिलम्
स्वल्पजीवशरापूर्णमुखहिक्काङ्कितस्वरम् । पिण्डहार्यवसागन्धवातात्तोत्पीडलोहितम्
उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् । निरधिष्ठितहस्त्यश्वपातितोद्यत्कबन्धकम्
रुदद्बन्धुसखिभ्रष्टशवक्षुब्धासृगुद्ध्वनि । मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम्
शवस्थानकृतोद्ग्रीवबन्धुकायपरीक्षणम् । शवहारखराकृष्टसम्पृक्तनरव्याकुलम्
केशशेवलवक्त्राब्जचक्रावर्तननर्तनम् । तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम्
प्राणान्तस्मृतपुत्रेष्टमातृदेवधनाभिधम् । हाहाहीहीतिकथितमर्मच्छेदनवेदनम्