ब्रह्मवासन्तकानीकैः कृत्ताश् चक्रैर् गता महीम् । माहार्याः क्रकचोत्कृत्ता वृक्षाः कुसुमिता इव
भोक्काणकाननं लूनं कुठारैर् जठरेरितैः । पतद् ददाह पार्श्वस्थो भद्रेशश् शरवह्निना
काशयो वन्दिलालानलग्ना जीर्णमतङ्गजाः । लयम् आजग्मुर् आबुद्धम् इद्धे ऽग्नाव् इन्धनं यथा
त्रिगर्तावर्तगर्तेषु भ्रमित्वौण्ड्रास् तृणोपमाः । विविशुर् व्यस्तमूर्धानः पातालान्तं पलायिताः
मन्दानिलाचलाम्भोधिभासुरे मागधे बले । निमग्ना वन्दिला मन्दाः पङ्के जीर्णगजा इव
चेदयच् चेतनां जह्नुस् तङ्गनानां रणाङ्गने । पुष्पाणां पथि शीर्णानां सौकुमार्यम् इवातपाः
कोसलाः पौरवारावम् असहन्तो ऽर्भका इव । तेरुर् मुक्तगदाप्रासशरशक्त्यृष्टिवृष्टयः
बभुर् भल्लनिकृत्ताङ्गा द्रिमयो विद्रुमद्रुमाः । इवाद्रौ विद्रवत्स्वान्त्रसान्द्रासृक्स्रवमूर्तयः
नाराचौघा महाहेतिमारुताधूतमूर्तयः । बभ्रमुर् भ्रमरानीकभासुरा जलधाव् इव
शरधाराधरामेघाश् शरोर्णापूर्णमेचकाः । शरपत्रावृता वृक्षा भ्रेमुर् उद्गर्जना जवाः
वनराज्यो जवाज् जीर्णाः कटकस्थलजन्तवः । अत्रुटन् परमाकृष्टाः पेलवा इव तन्तवः
रथेषूर्ध्वस्थचक्रेषु निखातोन्मग्नमूर्धसु । निपेतुर् जनसङ्घाता मेघा इव वनाद्रिषु
सालतालवनं प्राप्य जनतालवनं घनम् । भुजावकर्तनं चासीद् उत्तालस्थाणुकाननम्
ननन्दुर् नन्दनोद्यानसुन्दर्यो मत्तयौवनाः । वनोपवनदेशेषु मेरोर् वीरवराश्रिताः
तावत् तारारवं रेजे सैन्यकाननम् उन्नतम् । यावन् न परपक्षेण क्रान्तं कल्पानलौजसा
छिन्नान् पिशाचसंयुक्ता हूनापहृतहेतयः । पातयित्वा ययुः कर्णान् दशार्णास् तर्णका इव
जहुर् भग्नस्वराः कान्तिं ताजिकाजिजनौजसा । काशयः कमलानीव शुष्कस्रोतस्स्विनोजसा
भुखारा मेखलैः कीर्णाश् शरशक्त्यृष्टिमुद्गरैः । विद्रुता नरके क्षिप्ताः कार्कोटस्थलनामनि
कौरुक्षेत्रास्थस् तवसैश् छद्मयोधिभिर् आवृताः । गुणा इव खलाक्रान्ता गता व्यक्तम् अशक्तताम्
द्रिमयो वटधानानां क्षणेनादाय मस्तकम् । भल्लैः पलाय्याशु गता विलूनकमला इव
मिथस् सारस्वतादित्या आदिनान्तं कृताजयः । पण्डिता इव वादेषु नोद्विग्ना न पराजिताः
कवाटाः खर्वितक्षुद्रावाटधानैः परावृताः । तेजः परमम् आजग्मुश् शान्ताग्नय इवेन्धनैः
कियदाख्यायत एतज् जिह्वानिचयैः किलालम् आकुलितम् । वासुकिर् अपि वर्णयितुं न समर्थो रणवरं नाम
एवम् अत्याकुले युद्धे सास्फोटभटसङ्कटे । आदिनान्तम् असंरुद्धे रटत्कठिनकङ्कटे
वहन्तीषूत्पतन्तीषु पतन्तीष्व् अश्मवृष्टिषु । नदीषु क्षेपणोत्थासु चटत्केत्वब्जपङ्क्तिषु
मिथः फलाग्रटङ्कोत्थवह्निशीकरिणीसु खे । आयान्तीषु पतन्तीषु दूरं शरनदीषु च
वहल्लूनशिरःपद्मचक्रावर्तैस् तरङ्गितैः । खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः
समीरणरणद्वारिशस्त्रचूर्णघनैर् घनैः । सदाहाङ्गेषु सिद्धेषु कपिकच्छव्यथाप्रदैः
अष्टभागदशाशेषं प्रतापमधुराकृतिः । शस्त्रघातौजसा वीर इवाहस् तनुतां ययौ
श्रान्ताश्वेन प्रभग्नाग्रहेतिसङ्घातदीप्तयः । दिनेशेन समं सेना ययुर् मन्दप्रतापताम्