काशा ब्रह्मावसाताश् च छिन्नास् साम्बवतीजनैः । भूमौ निपतितास् सन्तो मथिता मत्तवारणैः
शूरा दशपुराश् शस्त्रैर् निकृत्तोदारकन्धराः । तारक्षतिभिर् आक्रम्य योजिता योजने ह्रदे
ऋष्यकारुरुकच्छाश् च शैव्यशङ्कुशताङ्किताः । पङ्किले पङ्कतां याता भूतले सैन्यमर्दनैः
वनवासोपगिरयो ऽनिलये निलयार्थिनः । परितः परिधावन्तः पतिता यमुनाह्रदे
दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः । रात्रिकाश् शान्तसञ्चाराः पिशाचैश् चर्विता निशि
उद्रवैर् भद्रगिरिभिस् सङ्ग्रामाध्वनि दीक्षितैः । क्षोणीगर्तेषु निक्षिप्ता रसलाः कमला इव
विद्रुत्येव द्रवद्रक्ता विद्रावितमहारथाः । दण्डकान्त्रानिलोद्धूता हेहया हरिणा इव
दन्तिदन्तविनिर्भिन्ना दारदा दलितारयः । नीता रक्तमहानद्या द्रुमाणां पल्लवा इव
नाराचैश् चर्विताश् चीना जीर्णजर्जरजीविताः । जहुर् जलनिधौ देहान् भारभूतान् अवस्थितान्
कर्णाटसुभटोड्डीनकुन्तकर्तितकन्दराः । तेरुर् आभीरशूराः खे तारकानिकरा इव
करीन्द्रमकरव्यूहरंहसाहतहेतयः । केशाकेशिकृतारम्भा विनेमुर् दशकाश् शकाः
दशार्णाद् आशनिर् मुक्तशृङ्खला जालभीरवः । निलीना रक्तजम्बाले वैतस्तास् तिमयो यथा
गूर्जरानीकनाशेन गूर्जरीकेशलुञ्छनम् । विहितं तङ्गनोत्तुङ्गशितशङ्कुशतेरणैः
सिषिचुश् शस्त्रकाषोद्यद्विद्युद् द्यौनिर्गता द्रवात् । शरधारावनानीव मीनहेतिप्रदाम्बुदात्
भुसुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु । आभीरेष्व् अरयः पेतुर् गोगणा हरितेष्व् इव
कान्तकाञ्चनकान्ताङ्गी नग्ना तङ्गनवाहिनी । भुक्ता गौडभटेनाङ्गनखकेशनिकर्षणैः
रणद्गगनगासज्जचक्रिचक्रविकर्तनैः । तङ्गनाः कणशः कीर्णाः कङ्कगृद्ध्रेषु रुद्रकैः
लगुडालोडनोड्डीनं गौडं गुडगुडारवम् । श्रुत्वा गान्धारगावोग्रे दुद्रुवुः प्रमिता इव
आकाशगार्णवप्रख्यो वहच्छस्त्रकदम्बकः । अकरोद् पारसीकानां घननैशतमोभ्रमम्
मन्दराहननोड्डीनखस्थक्षीरोदसुन्दरे । वनालीवायुधान्य् आसञ् छत्त्रप्रालेयसानुनि
यद् अम्बुदैर् इवोड्डीनं शस्त्रवृन्दैर् नभोऽङ्गने । तद् दृष्टं वीचिवलयैर् लोलैः प्लुतम् इवार्णवे
शतचन्द्रं सितच्छत्रैश् शरैश् शलभनिर्भरम् । शक्तिभिः काकनीरन्ध्रं दृष्टम् आकाशकाननम्
लीनाश् चीरचयाक्रन्दकारिणः केकयाः कृताः । कङ्कैः कङ्ककुलाक्रान्तैर् व्योमोच्छलितमस्तकाः
हिमवच्छैलकन्यानां कामं कलकलारवैः । अङ्गैर् अनङ्गतां नीत्वा भैरवैर् इव गर्जितम्
काशैर् उद्देहकाक्रान्ता अदृश्यैर् दयया खगैः । निर्धूतपक्षैः क्षुभितैः पवनैर् इव पांसवः
उन्मत्तास्त्रविनिर्धूतास् त्यक्तहेतिरणाम्बराः । नन्दनानन्दनिर्मातृ ननृतुर् जहसुर् जगुः
प्रक्वणत्किङ्किणीजालं शक्तिवर्षम् उपागतम् । साल्वबाणानिलोद्धूतम् अगमत् पृषदाकृतिम्
शैव्यास्त्रैः खण्डिताः कौन्ता भ्रमत्कुन्तैर् विघट्टिताः । शवीभूता दिवं नीता दृष्टा विद्याधरा इव
धराधरणधर्मिण्या धीरया वीरसेनया । लोठिताः पाण्डुनगराश् चलनोल्लासमात्रतः
उद्देहकाः पञ्चनदैर् दलिता मत्तकाशिभिः । कुन्तदन्तक्षतोद्दामैः पद्मा इव मतङ्गजैः