राजन्याश् च तथाश्विन्या अर्जुनावनयस् तथा । त्रिगर्तकेकयः क्षुद्रमाचेलाश्चूस्तवासिनः
अम्बलाः प्रस्थलाश् शाकाः क्षेमधूर्तय एव च । अन्तरद्वीपगान्धारस् तथा वन्दिवटस्तवः
अथ तक्षशिला नाम ततो ऽपि लवणावती । पुष्कलावतिदेशश् च यशोवतिमही ततः
ततो मणिमती भूमिश् श्यामाका खचरास् तथा । दाशदाना गव्यसना दण्डहव्यसनास् तथा
दानदाश् शूरकाश् चैव वाटाधारास् तथैव च । कोहकं नगरं चैव सुरभूतिपुरं तथा
ततो वै तटकादर्शा दन्तुरादर्श एव च । ततः पिण्डलमालव्ययायनेयाभिधानकाः
मालहाला हूनहेमतालाश्वास् स्वमुखास् तथा । हिमवान् वसुमान् कौञ्जः कैलासश् चेत्यगास् तथा
ततो जनपदा भूमिर् अशीतिशतयोजना । अथ प्रागुत्तरस्यां त्वम् इमाञ् जनपदाञ् शृणु
कौलूता ब्रह्मपुत्राश् च कुविन्दाश् च दिनादनाः । मडवा नष्टराज्याश् च वनराष्ट्रास् तथैव च
कैडभल्लास् सिंहपुरास् तथा चामवतङ्गनाः । सार्पातकाः पार्वतकाः कश्मीरा दरदास् तथा
अभिसारजदार्वाकाः पल्लोलुकचिरोडुनाः । किराताः पशुपालाश् च चीनास् स्वर्णमही ततः
देवस्थलोपवनभूस् तदनूदितश्रीर् विश्वावसोस् तदनु मन्दिरम् उत्तमर्द्धि । कैलासभूस् तदनु मुञ्जवनश् च शैलो विद्याधरामरविहारविमानभूमिः
रणे रभसनिर्लूननरवारणदारुणे । अहं पूर्वम् अहं पूर्वम् इति वृन्दानुपातिनि
एते चान्ये च बहवस् तत्र भस्मत्वम् आगताः । प्रविशन्तः प्रयत्नेन शलभा इव पावके
अत्रान्ये मध्यदेशीया जना नोदाहृता मया । तान् इमाञ् शृणु वक्ष्यामि पक्ष्यांल् लीलामहीभृतः
उद्देहिकाश् शूरसेना गुडा अश्वत्थनीपकाः । उत्तमज्योतिकद्राणि पदमध्यमिकादयः
साल्वकाः केतका मत्स्या दौलेयककपिष्टलाः । माण्डव्यपाण्डुनगरसौरग्रीवा गुरुग्रहाः
पारियात्राः कुराढ्यश् च यामुनोडुम्बरा अपि । गजाह्वा उज्जिहानाश् च कालकोटिकमाथुराः
कपोलधर्मारण्याश् च तथैवोत्तरदक्षिणाः । पाञ्चालकाः कुरुक्षेत्रास् तथा सारस्वता जनाः
अवन्तीस्यन्दनश्रेणीकुन्तैः पञ्चनदेरिताः । स्यन्दमाना विद्रवन्ती निपपात महाभृगौ
काशा ब्रह्मावसाताश् च छिन्नास् साम्बवतीजनैः । भूमौ निपतितास् सन्तो मथिता मत्तवारणैः
शूरा दशपुराश् शस्त्रैर् निकृत्तोदारकन्धराः । तारक्षतिभिर् आक्रम्य योजिता योजने ह्रदे
ऋष्यकारुरुकच्छाश् च शैव्यशङ्कुशताङ्किताः । पङ्किले पङ्कतां याता भूतले सैन्यमर्दनैः
वनवासोपगिरयो ऽनिलये निलयार्थिनः । परितः परिधावन्तः पतिता यमुनाह्रदे
दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः । रात्रिकाश् शान्तसञ्चाराः पिशाचैश् चर्विता निशि
उद्रवैर् भद्रगिरिभिस् सङ्ग्रामाध्वनि दीक्षितैः । क्षोणीगर्तेषु निक्षिप्ता रसलाः कमला इव
विद्रुत्येव द्रवद्रक्ता विद्रावितमहारथाः । दण्डकान्त्रानिलोद्धूता हेहया हरिणा इव
दन्तिदन्तविनिर्भिन्ना दारदा दलितारयः । नीता रक्तमहानद्या द्रुमाणां पल्लवा इव
नाराचैश् चर्विताश् चीना जीर्णजर्जरजीविताः । जहुर् जलनिधौ देहान् भारभूतान् अवस्थितान्
कर्णाटसुभटोड्डीनकुन्तकर्तितकन्दराः । तेरुर् आभीरशूराः खे तारकानिकरा इव