माल्यवान् नाम शैलो ऽत्र शिबिवाञ् ज्ञान एव च । वृषभध्वजपद्माद्यास् तथोदयकरो गिरिः
अथ प्राग्दक्षिणायां तु इमे विन्ध्याद्रिवासिनः । चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः
कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास् तथा । शवरा नग्नपर्णाश् च कण्ठत्रिपुरपूरकाः
कण्टकस्थलनामानः पृथुद्वीपककोमलाः । कण्ठद्राश् शोणिकाश् चैव तथा चर्मण्वता अपि
कोकका हेमकुड्याश् च तथा श्मश्रुधरा इति । बलिग्रीवमहाग्रीवाः किष्किन्धा नारिकेलिनः
अथ लीलापतेर् अस्य दक्षिणस्याम् इमे ऽद्रयः । विन्ध्यो ऽथ कुसुमापीडो महेन्द्रो दुन्दुरस् तथा
मलयस् सूर्यवांश् चैव गणराज्यनृराज्यकाः । अवन्तिर् इति विख्याता तथा साम्बवतीति च
दशपुर्या एककच्छा ऋषिकास् तुरुष्काश् शकाः । वनवासोपगिरयस् ते भद्रगिरयस् तथा
नागरा दण्डकाश् चैव गणराज्या नृराज्यकाः । सहारा ऋष्यमूकाश् च कार्कोटा वनतिम्बिलाः
पद्मा निवासिनश् चैव चौरकाः कर्कवीरकाः । वैरिकाः पाशिकाश् चैव धर्मपत्तनपांसिकाः
शाकिकाः कृष्णचेलूरा नार्मदास् ताम्रपर्णकाः । गोनन्दाः कनकाश् चैव चीनपत्तननामकाः
तालीकटास् सरित्कीर्णा रहका वेण्णकार्हणाः । वैवुण्डकास् तुम्बवना लाजिनद्वीपकर्णकाः
कर्णिकाराश् च शिवयः कुङ्कुणाश् चित्रकूटकाः । कर्णाटमञ्चकटका महाकटविकास् तथा
आन्ध्राश् च कोल्लशिनयश् शिवातकचवैरिकाः । बलदेवाः पत्तनकाः क्रौञ्चाष् टीवास् तथैव च
शिलाक्षा रदतो नन्दनन्दनामलयाभिधाः । ते चित्रकूटशिखरा लङ्कारक्षोगणास्पदाः
अथ प्रत्यग्दक्षिणायां महाराष्ट्रसुराष्ट्रकाः । सिन्धुसौवीरशूद्राख्या आभीरा द्रमिडास् तथा
कोटकाष् षण्डसिन्ध्वाख्यास् तथा कलिरुहा अपि । अत्र हेमगिरिश् शैलस् तथा रैवतको गिरिः
नभुकाख्यं मयवनं यवनास् तत्र जन्तवः । पह्लवा मार्गणावर्ता धूम्राम्बष्ठकनामकाः
तथा लाजकणाश् चैव तथाम्रगिरिवासिनः । ततो ऽब्धिर् और्वाग्नियुता एते लीलापतेर् जनाः
अथ तत्प्रतिपक्षस्थान् इमाञ् जनपदाञ् शृणु । पश्चिमायां दिशि प्रौढा इमे तावन् महाद्रयः
मतिमान् नाम शैलेन्द्रः क्षुरार्पणगिरिस् तथा । वनौकहा मेघवांश् च चक्रवान् अस्तपर्वतः
जनाः पञ्चनदा नाम काशा ब्रह्मावसातकाः । तथैव तारक्षतयः पारवाश् शान्तिकास् तथा
पार्श्वे वतकपोक्राणां गिरिवानवमास् तथा । सन्त्यक्तधर्ममर्यादास् ते ऽधमा म्लेच्छजातयः
ततो जनपदा भूमिर् योजनानां शतद्वयम् । ततो महेन्द्रशिखरी मुक्ता मणिमयावनिः
वृतो महीधरशतैर् अथास्तो नाम पर्वतः । ततो महार्णवो भीमाः पारियात्रगिरेस् तटे
पश्चिमोत्तरदिग्भागे देशो गिरिमतिस् स्थितः । तथा वेणुमतिश् चैव ततस् तुरमतिर् मही
तथा फल्गुनकाश् चैव माण्डव्या एकनेत्रकाः । पुरुकुन्दास् तुखाराश् च तालमल्ललहावहाः
वन्दिला नविला वाला दीर्घकेशाङ्गबाहवः । रङ्गाः खमूनिकाः कम्पा गुरुहाश् चारुहास् तथा
ततस् स्त्रीराज्यम् अतुलं गोवृषापत्यभाजनम् । अथोत्तरस्यां हिमवान् काञ्जो ऽथ मधुमान् गिरिः
कैलासो वसुमान् मेरुस् तत्पथेषु जना इमे । मद्रपौरवयौधेया मालवाश् शूरसेनकाः