अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तस् संस्थिता व्यर्थं यथा कीचकवेणवः
शाम्यतीदं कथं दुःखम् इति तप्तो ऽस्मि चिन्तया । जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना
संसारदुःखपाषाणनीरन्ध्रहृदयो ऽप्य् अहम् । निजलोकभयाद् एव गलद्बाष्पैर् न रोदिमि
शून्यमन्मुखवृत्तीस् तु शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संसारचिन्तया
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणान् अलम् । दुःखजालं प्रयच्छन्ति विप्रलम्भपराश् श्रियः
चिन्तानिचयवक्राणि नानन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्य् उग्रापदां यथा
विविधदोषदशापरिचिन्तनैस् सततभङ्गुरकारणकल्पितैः । मम न निर्वृतिम् एति मनो मुने निगडितस्य यथा वनहस्तिनः
खलाः काले काले निशि निशितमोहैकमिहिकागतालोके लोके विषयहठचौरास् सुचतुराः । प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे रणे शक्तास् तेषां वदत विबुधाः के ऽद्य सुभटाः
इयम् अस्मिन् विनोदाय संसारे परिकल्पिता । श्रीर् मुने परिमोहाय सापि नूनम् अनर्थदा
उल्लासबहुलान् अन्तः कल्लोलान् अक्रमाकुलान् । जडान् प्रस्रवति स्फारान् प्रावृषीव तरङ्गिणी
चिन्तादुहितरो बह्व्यो भूरिदुर्ललितेरिताः । चञ्चलाः प्रभवन्त्य् अस्यास् तरङ्गास् सरितो यथा
एषा हि पदम् एकत्र न निबध्नाति दुर्भगा । मुग्धेवानियताचारम् इतश् चेतश् च धावति
जनयन्ती परं दाहं परामृष्टाङ्गिका सती । विनाशम् एव धत्ते ऽन्तर् दीपलेखेव कज्जलम्
गुणागुणविचारेण विनैव किल पार्श्वगम् । राजप्रकृतिवन् मूढा दुरारूढावलम्बते
कर्मणा तेन तेनैषा विस्तारम् उपगच्छति । दोषाशीविषवेगस्य यत् क्षीरविसरायते
तावच् छीतमृदुस्पर्शः परे स्वे च जने जनः । वात्ययेव हिमं यावच् छ्रिया न परुषीकृतः
प्राज्ञाश् शूराः कृतज्ञाश् च पेशला मृदवश् च ये । पांसुमुष्ट्येव मणयश् श्रिया ते मलिनीकृताः
न श्रीस् सुखाय भगवन् दुःखायैव हि कल्पते । गुप्तं विनाशनं धत्ते मृतिं विषलता यथा
श्रीमान् अजननिन्द्यश् च शूरश् चाप्य् अविकत्थनः । समदृष्टिः प्रभुश् चैव दुर्लभाः पुरुषास् त्रयः
एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी
सम्भ्रमाभ्राद्रिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खदा कुभयभोगिनाम्
हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोस् सौजन्याम्भोजचन्द्रिका
इन्द्रायुधवद् आलोलनानारागमनोहरा । लोला तडिद् इवोत्पन्नध्वंसिनी जडसंश्रया
चपला वर्जिता रत्या नकुली नकुलीनजा । विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका
लहरीवैकरूपेण क्षणं पदम् अकुर्वती । चला दीपशिखेवातिदुर्ज्ञेयागतिगोचरा
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी । खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया
नानयोपहतार्थिन्या दुराधिपरिपीनया । पश्याम्य् अभव्यया लक्ष्म्या किञ्चिद् दुःखाद् ऋते सुखम्
द्वारेणोत्सारिता लक्ष्मीः पुनर् एति तमोऽरिणा । अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा