हेतिवर्षाशनिच्छिन्नभूतभूतलभूधरः । गजराजगिरिव्रातपातपिष्टजनव्रजः
शरधाराधरानीकमेघच्छन्नमहीनभः । महानीकार्णवक्षोभसङ्घट्टकठिनारवः
व्याप्त उग्रानिलोद्धूतैर् जलव्यालानलाचलैः । अन्योऽन्यदलनव्यग्रैर् अस्त्रोत्पातफलोत्थितैः
शूलासिचक्रशरशक्तिगदाभुसुण्डीप्रासादयो विदलनेन मिथो ध्वनन्तः । दीप्ता दधुर् दशदिशं शतशो भ्रमन्तः कल्पान्तवातपरिवृत्तपदार्थलीलाम्
अथ शृङ्गोपमानेषु स्थितेषु शवरादिषु । गङ्गातुल्यासु जातासु वहद्रक्तनदीषु च
नृत्यत्सु लोलदोर्दण्डं कबन्धेषु सबन्धुषु । ब्रुडत्सु नरहस्त्यश्वरथेषु रुधिराम्भसि
सर्वसैन्येषु यातेषु विरलत्वं विसारिषु । सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश
मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्क्तिषु । यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे
महतां धर्मनिष्ठानां शीलौजस्सत्त्वशालिनाम् । शुद्धानां कुलपद्मानां वीराणाम् अनिवर्तिनाम्
द्वन्द्वयुद्धानि जातानि मेघानाम् इव गर्जताम् । मिथो निगरणोत्कानि मिलत्सागरपूरवत्
सपञ्जरः पञ्जरिणा गजौघेन गजोच्चयः । सवनस् सवनेनाद्रिर् अद्रिणेवामिलद् बलात्
अश्वौघो ऽमिलद् अश्वानां वृन्देनाराविरंहसा । तरङ्गोघेन घोरेण तरङ्गोघ इवार्णवे
नरानीको नरानीकं समायुधम् अयोधयत् । वेण्वौघम् इव वेण्वौघो मरुल्लोलो मरुच्चलम्
रथौघश् च रथौघेन निष्पिपेषाखिलं वपुः । नगरं नगरेणेव दैवेनोड्डीनम् अम्बरम्
सरच्छरभरासाररचितापूर्ववारिदम् । युयुधे स्थगिताकाशा धनुर्धरपताकिनी
विषमायुधयुद्धेषु योद्धारः पेलवाशयाः । यदा युक्त्या पलायन्ते रणकल्पानले तदा
मिलिताश् चक्रिणश् चक्रैर् धनुर्धारैर् धनुर्धराः । खड्गिभिः खड्गयोद्धारो भुसुण्डीभिर् भुसुण्डिनः
मुसुलैर् मुसुलोद्धाराः कुन्तिनः कुन्तधारिभिः । ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः
समुद्गरा मुद्गरिभिस् सगदैर् विलसद्गदाः । प्रासमार्गविदः प्रासैः परशूत्काः परश्वधैः
लगुडौघैर् लगुडिन उपलैर् उपलायुधाः । पाशिभिः पाशपरमाश् शङ्कुभिश् शङ्कुधारिणः
क्षुरिकाभिस् सक्षुरिका भिण्डिपालैश् च तद्भृतः । वज्रमुष्टिधरास् तत्स्थैर् अङ्कुशैर् अङ्कुशोद्धृताः
हलैर् हलनिकाषज्ञास् त्रिशूलैश् च त्रिशूलिनः । शृङ्खलाजालिनो जालैश् शार्ङ्खलैर् अलिकोमलैः
शाक्तीकैश् शक्तियोद्धारश् शूलैश् शूलविशारदाः । क्षुभिताः कल्पविक्षुब्धसागरोर्मिघटा इव
क्षुब्धश् चक्रजलावर्तैश् शरशीकरमारुतैः । प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ
उत्फालायुधकल्लोलस् सेनाकुलजलेचरः । रोधोरन्ध्रसमुद्रो ऽसौ बभूवामरदुस्तरः
दिगष्टकजनानीकं पक्षद्वयतया तया । अर्धेनार्धेन कुषितं भूपालाभ्यां तथा स्थितम्
पश्य देशादिसङ्ख्येन प्राग्दिग्भागगतान् इमान् । लीलानाथस्य पद्मस्य पक्षे जनपदाञ् शृणु
पूर्वस्यां काशिमगधाः कोसला मिथिलोत्कलाः । मेकलाः कवटाः पुण्ड्रास् तथौण्ड्रास् समगौडकाः
द्रिमयो मद्रसुह्माश् च ताम्रलिप्तास् तथैव च । प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः
कर्णाक्षष्ठा अविश्रोत्रा आममीनाशनास् तथा । व्याघ्रवक्त्राः किराताश् च शवरा एकपादकाः