तरत्तुरङ्गविहगः पतत्करिघटातटः । भ्रमद्भीरुमृगानीकस् स्फूर्जद्घुरघुरारवः
सरच्छरालीशरभश् शरभङ्गुरसैन्यभूः । तरत्तुरङ्गशरभश् शरभारवहावनिः
वलद्वीरेभनिर्ह्रादो रसतूर्यगुहागृहः । विसरत्सैन्यजलदो लुठद्भटमृगाधिपः
प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् । पतद्रथवराढ्यङ्गः प्रपतत्खड्गमण्डलः
प्रोत्पतत्पट्टपुष्पाढ्यः पताकाछत्रवारिदः । वहद्रक्तनदीपूरः पतत्साराववारणः
सो ऽभूत् समरकल्पान्तो जगत्कवलनाकुलः । पर्यस्तसध्वजच्छत्रपताकारथपत्तनः
पतद्विमलहेत्योघभूरिभास्करभास्वरः । कठिनप्राणिसन्तापतापिताखिलमानवः
कोदण्डपुष्करावर्तशरधारानिरन्तरः । वहत्खड्गशिलालेखाविद्युद्वलयिताम्बरः
उच्छूनरक्तजलधिपतितेभकुलाचलः । नभोविकीर्णनिपतद्यन्त्राश्मगणतारकः
चक्रकल्पाम्बुदावर्तपूर्णव्योमशराम्बुदः । अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरान्तराः
हेतिवर्षाशनिच्छिन्नभूतभूतलभूधरः । गजराजगिरिव्रातपातपिष्टजनव्रजः
शरधाराधरानीकमेघच्छन्नमहीनभः । महानीकार्णवक्षोभसङ्घट्टकठिनारवः
व्याप्त उग्रानिलोद्धूतैर् जलव्यालानलाचलैः । अन्योऽन्यदलनव्यग्रैर् अस्त्रोत्पातफलोत्थितैः
शूलासिचक्रशरशक्तिगदाभुसुण्डीप्रासादयो विदलनेन मिथो ध्वनन्तः । दीप्ता दधुर् दशदिशं शतशो भ्रमन्तः कल्पान्तवातपरिवृत्तपदार्थलीलाम्
अथ शृङ्गोपमानेषु स्थितेषु शवरादिषु । गङ्गातुल्यासु जातासु वहद्रक्तनदीषु च
नृत्यत्सु लोलदोर्दण्डं कबन्धेषु सबन्धुषु । ब्रुडत्सु नरहस्त्यश्वरथेषु रुधिराम्भसि
सर्वसैन्येषु यातेषु विरलत्वं विसारिषु । सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश
मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्क्तिषु । यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे
महतां धर्मनिष्ठानां शीलौजस्सत्त्वशालिनाम् । शुद्धानां कुलपद्मानां वीराणाम् अनिवर्तिनाम्
द्वन्द्वयुद्धानि जातानि मेघानाम् इव गर्जताम् । मिथो निगरणोत्कानि मिलत्सागरपूरवत्
सपञ्जरः पञ्जरिणा गजौघेन गजोच्चयः । सवनस् सवनेनाद्रिर् अद्रिणेवामिलद् बलात्
अश्वौघो ऽमिलद् अश्वानां वृन्देनाराविरंहसा । तरङ्गोघेन घोरेण तरङ्गोघ इवार्णवे
नरानीको नरानीकं समायुधम् अयोधयत् । वेण्वौघम् इव वेण्वौघो मरुल्लोलो मरुच्चलम्
रथौघश् च रथौघेन निष्पिपेषाखिलं वपुः । नगरं नगरेणेव दैवेनोड्डीनम् अम्बरम्
सरच्छरभरासाररचितापूर्ववारिदम् । युयुधे स्थगिताकाशा धनुर्धरपताकिनी
विषमायुधयुद्धेषु योद्धारः पेलवाशयाः । यदा युक्त्या पलायन्ते रणकल्पानले तदा
मिलिताश् चक्रिणश् चक्रैर् धनुर्धारैर् धनुर्धराः । खड्गिभिः खड्गयोद्धारो भुसुण्डीभिर् भुसुण्डिनः
मुसुलैर् मुसुलोद्धाराः कुन्तिनः कुन्तधारिभिः । ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः
समुद्गरा मुद्गरिभिस् सगदैर् विलसद्गदाः । प्रासमार्गविदः प्रासैः परशूत्काः परश्वधैः
लगुडौघैर् लगुडिन उपलैर् उपलायुधाः । पाशिभिः पाशपरमाश् शङ्कुभिश् शङ्कुधारिणः