अक्षोभैकप्रहरणाद् अबुद्धान्योऽन्यचेष्टितम् । संरम्भाण्वेषणप्रज्ञं रणं सुप्तम् इव स्थितम्
अनन्यशब्दाविरतहतहेतिझणझणैः । गायतीव क्षयक्षोभमुदितो रणभैरवः
अन्योऽन्यहतहेत्यग्रचूर्णपूर्णो रणार्णवः । वालुकामय एवाभूच् छिन्नच्छत्त्रतरङ्गकः
अतिरभसरसद्विदारितूर्य प्रतिरवपूरितलोकपाललोकः । रणगिरिर् अयम् उग्रपक्षदक्षः प्रविसृतनृत्त इवाम्बरे युगान्ते
हा हा धिक् प्रविकटकङ्कटाटनोद्यत्प्रोड्डीनप्रकटतडिच्छटाः प्रदीप्ताः । क्रेङ्कारस्फुरितगुणेरिता रणन्तो नाराचाश् शिखरिशिलाभिदो वहन्ति
छिन्नेच्छा च्छम् इति न यावद् अङ्गभङ्गं कुर्वन्ति ज्वलदनलोज्ज्वलाः पृषत्काः । तावद् द्राग् द्रुतम् इत एहि मित्र यामो यामो ऽयं प्रवहति वासरश् चतुर्थः
अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः । उत्ताण्डव इवामत्तो बभूव स रणार्णवः
छत्त्रदिण्डीरविश्रान्तशितेषुशफरोत्करः । अश्वेभसैन्योल्ललनकल्लोलाकुलकोटरः
नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् । मत्तहस्तिघटापीठचलाचलकुलाकुलः
कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः । धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः
मकरव्यूहविस्तारभग्नाभग्नभटोग्रनौः । महागुडुगुडावर्तप्रतिश्रुद्घनकन्दरः
मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः । हेतिवीचिघटालूनपताकावीचिमण्डलः
शस्त्रवारिक्षताम्भोदसदृशावर्तकुण्डलः । संरम्भघनसञ्चारघटातिमितिमिङ्गिलः
कृष्णायसपरीधानचलत्सेनाम्बुभीषणः । कबन्धावर्तलेखान्तर्बद्धसैन्याद्रिभीषणः
शरशीकरनीहारसान्धकारककुब्गणः । निर्घोषाशेषिताशेषशब्दैकघनघुङ्घुमः
पतनोत्पतनव्यग्रशिरश्शकलशीकरः । आवर्तचक्रव्यूहान्तःप्रभ्रमद्भटकाष्टकः
कष्टटाङ्कारकोदण्डकुण्डलोर्मिघटोद्भटः । अशङ्कम् एव पातालाद् इवोद्यत्सैनिकोर्मिमान्
गमागमपरानन्तपताकाच्छत्रफेनिलः । वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः
गजप्रतिमसम्पन्नमहारुधिरबुद्बुदः । सैन्यप्रवाहविवलद्धयहस्तिजलेचरः
स सङ्ग्रामो ऽम्बरग्राम इवाश्चर्यकरो नृणाम् । अभूत् प्रलयभूकम्पकम्पिताचलचञ्चलः
तरत्तुरङ्गविहगः पतत्करिघटातटः । भ्रमद्भीरुमृगानीकस् स्फूर्जद्घुरघुरारवः
सरच्छरालीशरभश् शरभङ्गुरसैन्यभूः । तरत्तुरङ्गशरभश् शरभारवहावनिः
वलद्वीरेभनिर्ह्रादो रसतूर्यगुहागृहः । विसरत्सैन्यजलदो लुठद्भटमृगाधिपः
प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् । पतद्रथवराढ्यङ्गः प्रपतत्खड्गमण्डलः
प्रोत्पतत्पट्टपुष्पाढ्यः पताकाछत्रवारिदः । वहद्रक्तनदीपूरः पतत्साराववारणः
सो ऽभूत् समरकल्पान्तो जगत्कवलनाकुलः । पर्यस्तसध्वजच्छत्रपताकारथपत्तनः
पतद्विमलहेत्योघभूरिभास्करभास्वरः । कठिनप्राणिसन्तापतापिताखिलमानवः
कोदण्डपुष्करावर्तशरधारानिरन्तरः । वहत्खड्गशिलालेखाविद्युद्वलयिताम्बरः
उच्छूनरक्तजलधिपतितेभकुलाचलः । नभोविकीर्णनिपतद्यन्त्राश्मगणतारकः
चक्रकल्पाम्बुदावर्तपूर्णव्योमशराम्बुदः । अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरान्तराः