दृश्यन्ते ते ऽतिदलिताश् छत्त्रचामरकेतवः । आकाशक्षेत्रनिक्षिप्ता यशश् शालिलवा इव
वहद्भिर् व्योम्न्य् असङ्ख्येयैः पश्य नीता शरैः क्षयं । शक्तिवृष्टिर् उपायान्ती सस्यश्रीश् शलभैर् इव
एषा प्रसृतदोर्दण्डभटखड्गच्छनत्कृतिः । कठिनात् कङ्कटाज् जाता मृत्योर् एवोग्रहुङ्कृतिः
हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः । जनताक्षयकाले ऽस्मिन् भग्ननागा नगा इव
सचक्रनाथसूताश्वं व्यूहरक्तमहाह्रदे । हा हा धिग् ब्रुडितं भ्रष्टं विनष्टं रथपत्तनम्
कटुकङ्कटकुट्टाकखड्गसङ्घट्टटाङ्कृतैः । कालरात्र्या प्रनृत्यन्त्या रणे वीणेव वाद्यते
नरेभाश्वशवाद्रिभ्यो ये च्युता रक्तनिर्झराः । पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः
शस्त्रांशुजलधेर् व्योम्नि कालीचिकुरमेचकी । शरकोरकभारस्रग् घेमविद्युद् इवोम्भिता
अनन्तरक्तसंरक्तसेनावनिभिर् आयुधैः । भुवनं भात्य् अतिज्वालम् अग्निलोकम् इवाकुलम्
भुसुण्डीशक्तिशूलासिमुसुलप्रासवृष्टयः । अन्योऽन्यच्छेदभेदाभ्यां कणप्रकरताम् इताः
अक्षोभैकप्रहरणाद् अबुद्धान्योऽन्यचेष्टितम् । संरम्भाण्वेषणप्रज्ञं रणं सुप्तम् इव स्थितम्
अनन्यशब्दाविरतहतहेतिझणझणैः । गायतीव क्षयक्षोभमुदितो रणभैरवः
अन्योऽन्यहतहेत्यग्रचूर्णपूर्णो रणार्णवः । वालुकामय एवाभूच् छिन्नच्छत्त्रतरङ्गकः
अतिरभसरसद्विदारितूर्य प्रतिरवपूरितलोकपाललोकः । रणगिरिर् अयम् उग्रपक्षदक्षः प्रविसृतनृत्त इवाम्बरे युगान्ते
हा हा धिक् प्रविकटकङ्कटाटनोद्यत्प्रोड्डीनप्रकटतडिच्छटाः प्रदीप्ताः । क्रेङ्कारस्फुरितगुणेरिता रणन्तो नाराचाश् शिखरिशिलाभिदो वहन्ति
छिन्नेच्छा च्छम् इति न यावद् अङ्गभङ्गं कुर्वन्ति ज्वलदनलोज्ज्वलाः पृषत्काः । तावद् द्राग् द्रुतम् इत एहि मित्र यामो यामो ऽयं प्रवहति वासरश् चतुर्थः
अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः । उत्ताण्डव इवामत्तो बभूव स रणार्णवः
छत्त्रदिण्डीरविश्रान्तशितेषुशफरोत्करः । अश्वेभसैन्योल्ललनकल्लोलाकुलकोटरः
नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् । मत्तहस्तिघटापीठचलाचलकुलाकुलः
कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः । धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः
मकरव्यूहविस्तारभग्नाभग्नभटोग्रनौः । महागुडुगुडावर्तप्रतिश्रुद्घनकन्दरः
मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः । हेतिवीचिघटालूनपताकावीचिमण्डलः
शस्त्रवारिक्षताम्भोदसदृशावर्तकुण्डलः । संरम्भघनसञ्चारघटातिमितिमिङ्गिलः
कृष्णायसपरीधानचलत्सेनाम्बुभीषणः । कबन्धावर्तलेखान्तर्बद्धसैन्याद्रिभीषणः
शरशीकरनीहारसान्धकारककुब्गणः । निर्घोषाशेषिताशेषशब्दैकघनघुङ्घुमः
पतनोत्पतनव्यग्रशिरश्शकलशीकरः । आवर्तचक्रव्यूहान्तःप्रभ्रमद्भटकाष्टकः
कष्टटाङ्कारकोदण्डकुण्डलोर्मिघटोद्भटः । अशङ्कम् एव पातालाद् इवोद्यत्सैनिकोर्मिमान्
गमागमपरानन्तपताकाच्छत्रफेनिलः । वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः
गजप्रतिमसम्पन्नमहारुधिरबुद्बुदः । सैन्यप्रवाहविवलद्धयहस्तिजलेचरः
स सङ्ग्रामो ऽम्बरग्राम इवाश्चर्यकरो नृणाम् । अभूत् प्रलयभूकम्पकम्पिताचलचञ्चलः