किम् इदं भगिनि व्योम पलालभरितं स्थितम् । नेदं पलालं वीराणाम् एते शरभराम्बुदाः
यावन्तो भुवि शाम्यन्ति रुधिरैर् अणुरेणवः । तावन्त्य् अब्दसहस्राणि भटानाम् आस्पदं दिवि
मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः । अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः
वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् । मेखलाश् शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः
ललद्भुजलतालोलरक्तपल्लवपाणयः । मञ्जरीमत्तनयना मध्वामोदसुगन्धयः
याचन्त्यो मधुरालापैर् नन्दनोद्यानदेवताः । तवागमनम् आशङ्क्य प्रवृत्ताः परिनर्तितुम्
प्रत्यनीकं भिनत्त्य् अन्तः कुठारैः कठिनैर् इयम् । सेना ग्राम्येव वनिता दयितं दुष्टचेष्टितैः
हा पितुर् मम भल्लेन शिरो ज्वलितकुण्डलम् । सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः
आपादं शृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् । भ्रमयंश् चित्रदण्डाख्यं चक्रम् ऊर्ध्वभुजो जवात्
योधो यम इवायामी याम्याद् आयाति दिक्तटात् । सर्वतस् संहरन् सेनाम् एहि यामो यथागतम्
सद्यश्छिन्नशिरश्श्वभ्रमज्जत्कङ्ककुलाकुलाः । कबन्धाः पश्य नृत्यन्ति तालोत्ताला रणाङ्गने
गीर्वाणगणगोष्ठीषु प्रवृत्ता सङ्कथा मिथः । वद लोकान्तरं वीराः कथं यास्यन्ति के कुतः
निगिरन्त्य् आगतास् सेनास् स्रवन्तीर् इव सागराः । समत्स्यमकरव्यूहा अहो नु विषमा भटाः
कटेषु करिणां कीर्णा धारानाराचराशयः । पतिता इव सम्पूर्णाश् शृङ्गसङ्घेषु वृष्टयः
हा कुन्तेन शिरो नीतं ममेत्य् एवं विवक्षतः । शिर आनीतम् इत्य् एव खे खगेनेव वाशितम्
यन्त्रपाषाणवर्षेण येनास्मान् परिषिञ्चति । सेनास्यां शृङ्खलाजालवलना क्रियतां बलात्
सर्वान् समग्रतो मूढान् नयतार्धमृतान् नरान् । निजान् पादप्रहारेण मैतान् मारयताधमाः
धम्मिल्लवलनाव्यग्रे घनोत्कण्ठाप्सरोगणे । भटो दिव्यशरीरेण पार्श्वं प्राप्तो विलोक्यताम्
फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः । स्वर्गनद्यास् तटीष्व् एवं दूरायातं विलोकय
विविधायुधसङ्घट्टखण्डितोग्राद्रिकोटयः । खे चरन्त्यो झणत्कारैः प्रमृतास् तारका इव
व्योम्नि शून्यनदीवाहे वहत्सायकवारिणि । चक्रावर्तिनि गच्छन्ति गिरयो ऽप्य् अणुपङ्कताम्
भ्रमद्भिर् ग्रहमार्गेषु शिरोभिर् वीरभूभृताम् । आयुधांशुलतानाललग्नासिदलकण्टकैः
केतुपट्टमृणालाङ्कतलैर् लग्नशिलीमुखैः । वहद्वातललत्पद्मं नभः पद्मसरः कृतम्
मृतमातङ्गसङ्घाते गिराव् इव पिपीलिकाः । भीरवः परिलीयन्ते स्त्रियः पुंवक्षसीव वा
अपूर्वोत्तमसौन्दर्यकान्तसङ्गमशंसिनः । वान्ति विद्याधरस्त्रीणाम् अलकोल्लासिनो ऽनिलाः
छत्त्रेषूड्डीय यातेषु छिन्नेषु व्योमचन्द्रिकाम् । इन्दुनैत्य यशोमूर्त्या कृता शुभ्रातपत्रता
भटो मरणमूर्छान्ते निमेषेणामरं वपुः । स्वकल्पशिल्पिरचितं प्राप्तस् स्वप्नपुरं यथा
शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्तमुष्टयः । व्योमाब्धौ मत्स्यमकरकुलीराश् शूरवत् स्थिताः
शरोत्कृत्तपतच्छत्त्रकलहंसैर् नभस्तलम् । भाति सञ्चितपूर्णेन्दुबिम्बलक्षैर् इवावृतम्
क्रियते गगनोड्डीनैश् चामरैश् चारुघर्घरैः । वातावधूतसारावतरङ्गनिकरद्युतिः