कङ्कटोत्थस्फुरद्वह्निच्छटाप्लुष्टशिरोरुहः । रणत्पतदसिव्रातदत्तपीनझणज्झणः
कुन्तकुण्ठितमातङ्गतरङ्गोद्गतलोहितः । दन्तिदन्तविनिष्पेषतारक्रेङ्कारकर्कशः
महामुसुलसम्पातपिष्टवृन्दोद्धुरस्वरः । तरच्छूरशिरःपद्मप्रकराच्छादिताम्बरः
व्योमव्यस्तभुजाहीन्द्रपूर्णधूलिमयाम्बुदः । छिन्नहेतिनरारब्धकेशाकेशिप्रतिक्रियः
नखानखिनिकृष्टाक्षिकर्णनासोमहाभयः । पतत्समदमातङ्गकम्पितोर्वीलुठद्रथः
रणप्रासरयोत्पन्नव्रणरक्तपरिच्छदः । रजोरचितनीहारकचत्प्रवहदायुधः
एकीकृतघनक्षोभसैन्यसागरगर्वितः । मत्तहासविलासेन मृत्युना परिचर्वितः
गर्विताद्रीन्द्रनागेन्द्रखर्विताम्भोदगर्जितः । वृक्षपार्श्वतटीसन्नचक्रशक्त्यृष्टिमुद्गरः
शरोर्णातन्तुनीरन्ध्रवृक्षयोधादिमेषकः । मेघविभ्रान्तिविच्छिन्नपताकापट्टचामरः
यन्त्रपाषाणचक्रौघद्रुतविद्रुतखेचरः । मरणव्यग्रकृत्ताङ्गयोधाक्रन्दातिघर्घरः
कुधाराघातसङ्घातविदलन्मस्तकव्रणः । दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः
शङ्कुनिर्मुक्तशक्त्योघविषक्तेभावृतावनिः । सैन्यव्याकुलवेतालवल्गनोन्मुक्तमुद्गरः
गगनोत्तम्भितोत्तुङ्गशूरतोमरतोरणः । भुसुण्डीभग्नखड्गौघखण्डालीव्योमकुण्डलः
कुन्तवेणुवनव्यस्ततापाम्बरकचच्छिखी । खड्गर्ष्टिवृष्टिसन्तुष्टराजपूजितसैनिकः
शूरोत्तम्भितसच्छूरग्रहणोद्यमिताप्सराः । गदानुसारविगलत्स्फुरिताङ्गददिङ्मुखः
प्रासप्रसभनिष्पिष्टकष्टचेष्टभटोत्कटः । चक्रिचक्रखसञ्चारच्छिन्नाचतुरवारणः
परशुव्रातसम्पातपतत्समदवारणः । लगुडालोडनोड्डीनप्रोड्डामररणद्भटः
यन्त्रपाषाणसम्पातपिष्टकेतुरथद्रुमः । करवालविलूनोग्रच्छत्त्रपङ्कजपाण्डुरः
क्षेपणक्षोभसङ्क्षीणसैन्यक्षोण्योपलक्षितः । कबन्धबन्धमत्तेभपातसम्पिष्टपार्श्वगः
शङ्कुशङ्कितशङ्खस्थवीरवारितवारणः । पाशावेशविशेषज्ञवीरातिपरिदेवनः
क्षुरिकाकुक्षिनिर्भेदगलत्पद्मपतज्जनः । त्रिशूलवदनोदात्तशूलशङ्करनर्तनः
धावद्धानुष्कसम्पूर्णतूणकूजनकाकलिः । भिण्डिपालभटाटोपपत्रातारभटीनटः
वज्रमुष्टिविनिष्पिष्टपृष्ठसद्भटसङ्कटः । श्येनवद् व्योमपदवीं प्रोत्पतत्सूतपट्टिशः
अङ्कुशाक्रान्तशूरेन्द्रमहेभहयकेतनः । हालाहलहलालूनहेलाकुलबलाचलः
सुतालोत्तालकुद्दालनिखातबलभूतलः । धनुर्द्विगुणदत्तास्त्रलूनलोकशिलावलिः
क्रकचोभयपार्श्वेहाच्छिन्नमत्तमतङ्गजः । सङ्ग्रामोलूखलापूर्णलोकतण्डुलमौसुली । अभ्राभशृङ्खलाजालबद्धसेनाविहङ्गमः
नाराचवर्षवरवारिदवीरपूर मत्ताभ्रसम्भ्रमसनृत्तकबन्धबर्ही । कल्पान्तकाल इव वेगविवर्तमानमातङ्गशैलवलितो रणसम्भ्रमो ऽभूत्
अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणाम् अपि । रभसप्रेक्षकाणां च तत्रेमाः प्रोदगुर् गिरः
चलत्पद्मं सर इव वहद्विहगम् एव वा । नभश् शूरशिरःकीर्णं भाति तारकिताकृति
पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः । सन्ध्या इव विभान्त्य् एते मध्याह्ने ऽम्बुदभानवः