प्रहारपातसम्प्रेक्षानिस्स्पन्दासङ्ख्यसैनिकम् । अन्योऽन्योत्कटकाठिन्यभटभ्रूकुटिसङ्कटम्
परस्परांससङ्घट्टकटुटाङ्कारकङ्कटम् । वीरयोधदुराधर्षभीरुप्रोज्झितकोटरम्
मिथस्संस्थानकालोकमात्रसन्दिग्धजीवितम् । समस्ताङ्गरुहासक्तपांसुवृद्धाभमानवम्
पूर्वप्रहारसम्प्रेक्षाव्यग्रप्राणितया तया । संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम्
संशान्तशङ्खसङ्घाततूर्यनिर्ह्राददुन्दुभि । भूतलावशसंलीनसर्वपांसुपयोधरम्
पलायनपरैः पश्चात् त्यक्तम् अङ्गुलम् अङ्गुलम् । विसारिमकरव्यूहमत्स्यसंस्थाब्धिभासुरम्
पताकामञ्जरीपुञ्जवीजितद्रुमनायकम् । हास्तिकोत्तम्भितकरकाननीकृतखान्तरम्
तरत्तरलभापूरसपक्षसकलायुधम् । धमद् धम् इति शब्दैश् च श्वासोत्थैर् व्याप्तखान्तरम्
चक्रव्यूहकराक्रान्तदुर्वृत्तसुभटासुरम् । गरुडव्यूहसंरम्भविवलन्नागसञ्चयम्
श्येनव्यूहाविभिन्नोग्रसन्निवेशोन्नमद्ध्वनि । अन्योऽन्यस्फोटनिष्पेषप्रपतच्छूरवृन्दकम्
विविधव्यूहविन्यासम् आन्तरारावभैरवम् । करप्रतोलनोल्लासमत्तमुद्गरमन्दिरम्
कृष्णायुधांशुजालेन श्यामीकृतदिवाकरम् । अनिलाधूतशल्मीलशूत्कराभशरध्वनि
अनेककल्पकल्पान्तसधर्मम् इव संस्थितम् । प्रलयानिलसङ्क्षुब्धम् एकार्णवम् इवोत्थितम्
पातालकुहराक्षुब्धम् अन्धकारम् इवोत्थितम् । लोकालोकम् इवोन्मत्तनृत्तलोललसत्तटम् । महानरकसङ्घातं भित्त्वावनिम् इवोत्थितम्
आलोलकुन्तमुसुलासिपरश्वधांशुश्यामायमानम् इव सातपवारिपूरैः । एकार्णवं भुवनकोशम् इवाचिरेण कर्तुं समुद्यतम् अगाधम् अनन्तपूरैः
भगवन् युद्धम् एतन् मे समासेन मनाग् वद । श्रुतिर् आह्लाद्यते श्रोतुर् यस्माद् एताभिर् उक्तिभिः
अथ खे तत्र ते देव्यौ सङ्ग्रामं तद् अवेक्षितुम् । विमाने कल्पिते कान्ते रुद्धे रुरुहतुस् स्थिरे
एतस्मिन्न् अन्तरे तत्र लीलेशप्रतिपक्षतः । ताम्यन् सोढुम् अशक्तस् सन् दुःखव्यतिकरं रणे
प्रलयार्णवकल्लोल इवोत्पत्योद्भटो भटः । जहौ सानाव् इव शिलां भटस्योरसि मुद्गरम्
अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा । सेनयोश् शस्त्रसम्पातः किरन्न् अनलविद्युतः
तरत्तरलधाराग्ररेखाङ्कितनभस्तलः । ध्वनज्झणझणाशब्दमध्यलक्षितझाङ्कृतिः
वीरहुङ्कारमिश्रज्याघर्घरारावघस्मरः । प्रवृत्तशरधाराभ्रभास्करार्चिर्वितानकः
रणत्कङ्कटटाङ्कारप्रोड्डीनकणपावकः । परस्पराहतिच्छिन्नहेतिखण्डखगाम्बरः
वीरदोर्द्रुमसञ्चारवहद्वननभस्तलः । कोदण्डचक्रक्रेङ्कारद्रवद्वैमानिकाङ्गनः
महाहलहलारावभृङ्गीकृतघनध्वनिः । निर्विकल्पसमाधिस्थ इवैकघनतावशात्
नाराचासारधाराग्रलूनशूरशिरःकणः । परस्परांससङ्घट्टरणत्कङ्कटसङ्कटः
हुङ्कारहतहेत्यग्रसङ्घट्टकटुटाङ्कृतः । तरद्धारातरङ्गोग्रदन्तुराशेषदिङ्मुखः
हेतिसङ्घट्टविक्षोभमुष्टिग्राह्यझणज्झणः । विकचत्स्फोटकस्फोटरटच्चटचटारवः
प्रवहत्खड्गटाङ्कारज्वलच्छणशणध्वनिः । सरच्छरभरोद्वान्तलसच्छवशवस्वनः
धग् धग् धग् इति विच्छिन्नकण्ठोत्थव्रणलोहितः । छिन्नबाहुशिरःखड्गखण्डनिर्विवराम्बरः