गोर् अर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मतिः । शरणागतयत्नेन मृतस् स्वर्गे विभूषणम्
परिपाल्य स्वदेशैकपालनीयस्थितिं सदा । राजा मृतस् तदर्थं यस् स वीरो वीरलोकभाक्
प्रजोपद्रवनिष्ठस्य यस्य राज्ञो ऽथवा प्रभोः । अर्थेन ये मृता युद्धे ते वै निरयगामिनः
धर्म्यं यथा तथा युद्धं यदि स्यात् तद् इमां स्थितिम् । नाशयेयुर् अलं मत्ता येन लोकभयोज्झिताः
यत्र यत्र हतश् शूरस् स्वर्ग्य इत्य् अधमोक्तयः । धर्म्यो योद्धा भवेच् छूर इत्य् एवं शास्त्रनिश्चयः
सदाचारवताम् अर्थे खड्गधारां सहन्ति ये । ते शूरा इति कथ्यन्ते शेषा डिम्बाहवाहताः
तेषाम् अर्थे रणव्योम्नि तिष्ठन्त्य् उत्कण्ठिताशयाः । सुरीभूतमहासत्त्वदयितोत्कास् सुराङ्गनाः
विद्याधरीमधुरमन्थरगीतगर्भं मन्दारमाल्यवलनाकुलमानिनीकम् । विश्रान्तकान्तसुरसिद्धविमानपङ्क्ति व्योमोत्सवे रचितशोभम् इवोल्ललास
अथ वीरवरोत्कण्ठनृत्यदप्सरसि स्थिता । लीला विलोकयाम् आस व्योम्नि विद्यान्वितावनौ
सुराष्ट्रमण्डले भर्तृपालिते वनमालिते । कस्मिंश्चिद् विततारण्ये द्वितीयाकाशभीषणे
सेनाद्वितयम् अक्षुब्धं सौम्याब्धिद्वितयोपमम् । महारम्भघनं मत्तं स्थिरं राजद्वयान्वितम्
युद्धसज्जं सुसन्नद्धसिद्धम् अग्निम् इवाहुतम् । पूर्वप्रहारसम्पातप्रेक्षाक्षुब्धाक्षिलक्षकम्
उद्यतामलनिस्त्रिंशधारासारब्रुडज्जनम् । कचत्परश्वधप्रासभिण्डिपालर्द्धिसङ्कुलम्
गरुत्मत्पक्षविक्षुब्धवनसम्पातकम्पितम् । उद्यद्दिनकरालोककचत्कनककङ्कटम्
परस्परमुखालोककोपप्रोद्धासितायुधम् । अन्योऽन्यबद्धदृष्टित्वाच् चित्रभित्ताव् इवार्पितम्
लेखामर्यादया दीर्घबद्धया स्थापितस्थिति । अनिवार्यमहाहार्यझाङ्काराश्रुतसङ्कथम्
पूर्वप्रहारस्मयतश् चिरसंशान्तदुन्दुभि । निबद्धयोधसंस्थाननिश्चलानीकमन्थरम्
धनुर्द्वितयमात्रात्मशून्यमध्यैकसेतुना । विभक्तं कल्पवातेन मत्तम् एकार्णवं यथा
कार्यसङ्कटसंरम्भचिन्तापरवशेश्वरम् । रववद्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम्
प्राणसर्वस्वसन्न्याससोद्योगासङ्ख्यसैनिकम् । कर्णस्थसशरज्यौघत्यागोन्मुखधनुर्धरम्
प्रहारपातसम्प्रेक्षानिस्स्पन्दासङ्ख्यसैनिकम् । अन्योऽन्योत्कटकाठिन्यभटभ्रूकुटिसङ्कटम्
परस्परांससङ्घट्टकटुटाङ्कारकङ्कटम् । वीरयोधदुराधर्षभीरुप्रोज्झितकोटरम्
मिथस्संस्थानकालोकमात्रसन्दिग्धजीवितम् । समस्ताङ्गरुहासक्तपांसुवृद्धाभमानवम्
पूर्वप्रहारसम्प्रेक्षाव्यग्रप्राणितया तया । संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम्
संशान्तशङ्खसङ्घाततूर्यनिर्ह्राददुन्दुभि । भूतलावशसंलीनसर्वपांसुपयोधरम्
पलायनपरैः पश्चात् त्यक्तम् अङ्गुलम् अङ्गुलम् । विसारिमकरव्यूहमत्स्यसंस्थाब्धिभासुरम्
पताकामञ्जरीपुञ्जवीजितद्रुमनायकम् । हास्तिकोत्तम्भितकरकाननीकृतखान्तरम्
तरत्तरलभापूरसपक्षसकलायुधम् । धमद् धम् इति शब्दैश् च श्वासोत्थैर् व्याप्तखान्तरम्
चक्रव्यूहकराक्रान्तदुर्वृत्तसुभटासुरम् । गरुडव्यूहसंरम्भविवलन्नागसञ्चयम्
श्येनव्यूहाविभिन्नोग्रसन्निवेशोन्नमद्ध्वनि । अन्योऽन्यस्फोटनिष्पेषप्रपतच्छूरवृन्दकम्