प्रत्येकम् अण्डगोलस्य स्थितः कड्ढकरत्नवत् । भूताकृष्टिकरो भागः पार्थिवस् स स्वभावतः
यस् सर्गविभवो ऽस्माकं धियाम् अविषयस् ततः । तज्जगत्कथने शक्तिर् न ममास्ति महामते
भीमान्धकारगहने सुमहत्य् अरण्ये नृत्यन्त्य् अदर्शितपरस्परम् एव मत्ताः । यक्षा यथा प्रवितते परमाम्बरे ऽन्तर् एवं स्फुरन्ति सुबहूनि महाजगन्ति
एवम् आकलयन्त्यौ ते निर्गत्य जगतो निजम् । अन्तःपुरं ददृशतुर् झगितीव विनिद्रिते
स्थितपुष्पभरापूर्णमहाराजमहाशवम् । शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम्
घनरात्रितयाल्पाल्पमहानिद्रजनाकुलम् । धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम्
तम् आलोक्य पुनर् भर्तुस् संसारं गन्तुम् आदृता । पपात लीला सङ्कल्पदेहेनात्रैव तन्नभः
विवेश भर्तृसङ्कल्पसंसारं कञ्चिद् आततम् । संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम्
प्राप सार्धं तया देव्या पुनर् आवरणान्वितम् । ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात्
ददर्श भर्तृसङ्कल्पजगज् जम्बालपल्वलम् । सा हंसी शैलकमलं तमोजलदपङ्किलम्
देव्यौ विविशतुस् तत् ते व्योम व्योमात्मके जगत् । ब्रह्माण्डे ऽन्तर् यथा पक्वमृदुबिल्वं पिपीलिके
तत्र लोकान्तराण्य् अद्रीन् अन्तरिक्षम् अतीत्य ते । प्रापतुर् भूतलं शैलमण्डलाम्भोधिसङ्कुलम्
मेरुणालङ्कृतं जम्बुद्वीपं नवदलोदरम् । तत्राथ भारते वर्षे लीलानाथस्य मण्डलम्
एतस्मिन्न् अन्तरे तस्मिन् मण्डले मण्डितावनौ । चक्रे ऽवस्कन्दनं कश्चित् सीमान्तोद्रिक्तभूमिपः
तेन सङ्ग्रामसंरम्भप्रेक्षार्थं समुपागतैः । त्रैलोक्यभूतैस् तद् व्योम बभूवात्यन्तसङ्कटम्
अशङ्कितागते ते तु देव्यौ ददृशतुर् नभः । नभश्चरगणाक्रान्तम् अम्बुदैर् इव मालितम्
सिद्धचारणगन्धर्वगणविद्याधरान्वितम् । शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम्
रक्तमांसमुखोन्नृत्यद्भूतरक्षःपिशाचकम् । वृष्टिपुष्पभरापूर्णहस्तविद्याधराङ्गनम्
वेतालयक्षकुम्भाण्डैर् द्वन्द्वालोकनसादरैः । आयुधापातरक्षार्थगृहीताद्रितटैर् वृतम्
अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् । स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम्
शूरार्थालङ्कृतोत्तुङ्गलोकपालाग्र्यवारणम् । आगच्छच्छूरसङ्घातगन्धर्वोन्मुखचारणम्
शूरोत्सुकामरस्त्रैणकटाक्षेक्षितसद्भटम् । आहोपुरुषिकाक्षुब्धप्रेक्षकामोटनोद्भटम्
आसन्नभीमसङ्ग्रामकिंवदन्तीपरम्परम् । लीलाहासविलासोत्कसुन्दरीधूतचामरम्
धर्म्यपक्षप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् । सम्पन्नानेकलोकेशवनितानवसंस्तवम्
वीरदोर्मण्डलाश्लेषलम्पटस्त्रीगणाकरम् । शुक्लेन शूरयशसा चन्द्रीकृतदिवाकरम्
भगवञ् शूरशब्देन कीदृशः प्रोच्यते भटः । स्वर्गे ऽलङ्करणं कस् स्यात् को वा डिम्बाहतो भवेत्
शास्त्रोक्ताचारयुक्तस्य प्रभोर् अर्थेन यो रणे । मृतो ऽथवा जयी वा स्यात् स शूरश् शूरलोकभाक्
अन्यथा तु निकृत्ताङ्गो रणे यो मृतिम् आप्नुयात् । डिम्बाहवहतः प्रोक्तस् स नरो नरकास्पदम्
अयथाशास्त्रसञ्चारवृत्तेनार्थेन युध्यते । यो नरस् तस्य सङ्ग्रामे मृतस्य निरयो ऽक्षयः
यथासम्भवशास्त्रार्थलोकाचारानुवृत्तिमान् । युध्यते तादृशस्यैव भक्त्या शूरस् स उच्यते