अस्वतन्त्राः प्रधावन्ति पदार्थास् सर्व एव यत् । ब्रह्माण्डं पार्थिवं भागं तद् अधश् शून्यम् अन्यथा
पिपीलिकानाम् भ्रमतां व्योम्नि वर्तुललोष्टके । दशदिक्कम् अधःपादाः पृष्ठम् ऊर्ध्वम् उदाहृतम्
वृक्षवल्मीकजालेन केषाञ्चिद् धृदि भूतलम् । सेन्द्वर्कामरदैत्येन वेष्टितं व्योम निर्मलम्
सम्भूतं मरुभूतेन सग्रामपुरपर्वतम् । इदङ्कल्पम् अलूनेन पक्वाक्षोटम् इव त्वचा
यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः । तथा तस्मिन् पराभोगे ब्रह्माण्डत्रसरेणवः
तस्मिन् सर्वं ततस् सर्वं तत् सर्वं सर्वतश् च तत् । तच् च सर्वमयं नित्यं तथा तद् अणुकं प्रति
शुद्धबोधमये तस्मिन् परमालोकवारिधौ । अजस्रम् एत्य गच्छन्ति ब्रह्माण्डाख्यास् तरङ्गकाः
अन्तश्शून्यास् स्थिताः केचित् सकल्पक्षयरात्रयः । तरङ्गा इव तोयाब्धौ प्रोह्यन्ते शून्यतार्णवे
केषाञ्चिद् अन्तः कल्पान्तः प्रवृत्तो घर्घरारवः । न श्रुतो ऽन्यैर् न च ज्ञातस् स्वभावरसनाकुलैः
अन्येषां प्रथमारम्भेषूद्बुभूषा विजृम्भते । सर्गसंसिक्तबीजानां कोशे ऽङ्कुरलता यथा
महाप्रलयसम्पत्तौ सूर्यार्चिर्विद्रुताश्रयाः । प्रवृत्ता गलितुं केचित् तापे हिमकणा यथा
आकल्पं निपतन्त्य् एव केचिद् अप्राप्तभूमयः । यावद् विशीर्य जायन्ते तथासंविन्मयाः किल
स्तब्धा एव स्थिताः केचित् केषोण्डुकम् इवाम्बरे । वायोस् स्पन्दा इवाभान्ति तथाप्रोदितसम्पदः
आचाराद् वेदशास्त्राणाम् अन्य एवान्यथोदितः । आरम्भो विततो ऽन्येषाम् अनित्थं संस्थितक्रमः
केचिद् ब्रह्मादिपुरुषाः केचिद् विष्ण्वादिसर्गपाः । केचिच् चान्ये प्रजानाथाः केचिन् निर्नाथजन्तवः
केचिद् विचित्रसर्गेशाः केचित् तिर्यङ्मयान्तराः । केचिद् एकार्णवापूर्णा जलेतरविवर्जिताः
केचिच् छिलाङ्गनिष्पिण्डाः केचित् क्रिमिपथान्तराः । केचिद् देवमया एव केचिन् नरमयान्तराः
केचिन् नित्यान्धकाराढ्यास् तथाशीलितजन्तवः । केचिन् मषकसम्पूर्णा उडुम्बरफलश्रियः
नित्यं शून्यान्तराः केचिच् छून्यस्पन्दात्मजन्तवः । सर्गेण तादृशेनान्ये पूर्णा ये ऽस्मद्धियाम् इह । कल्पनाम् अपि नायान्ति व्योममूकाचला इव
तादृगन्तरम् एतेषां महाकाशं ततस् स्थितम् । आजीवितं प्रयच्छद्भिर् विष्ण्वाद्यैर् यन् न दीयते
प्रत्येकम् अण्डगोलस्य स्थितः कड्ढकरत्नवत् । भूताकृष्टिकरो भागः पार्थिवस् स स्वभावतः
यस् सर्गविभवो ऽस्माकं धियाम् अविषयस् ततः । तज्जगत्कथने शक्तिर् न ममास्ति महामते
भीमान्धकारगहने सुमहत्य् अरण्ये नृत्यन्त्य् अदर्शितपरस्परम् एव मत्ताः । यक्षा यथा प्रवितते परमाम्बरे ऽन्तर् एवं स्फुरन्ति सुबहूनि महाजगन्ति
एवम् आकलयन्त्यौ ते निर्गत्य जगतो निजम् । अन्तःपुरं ददृशतुर् झगितीव विनिद्रिते
स्थितपुष्पभरापूर्णमहाराजमहाशवम् । शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम्
घनरात्रितयाल्पाल्पमहानिद्रजनाकुलम् । धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम्
तम् आलोक्य पुनर् भर्तुस् संसारं गन्तुम् आदृता । पपात लीला सङ्कल्पदेहेनात्रैव तन्नभः
विवेश भर्तृसङ्कल्पसंसारं कञ्चिद् आततम् । संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम्
प्राप सार्धं तया देव्या पुनर् आवरणान्वितम् । ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात्
ददर्श भर्तृसङ्कल्पजगज् जम्बालपल्वलम् । सा हंसी शैलकमलं तमोजलदपङ्किलम्