मेघमार्गम् अतिक्रम्य वातस्कन्धावनिं तथा । सौरं मार्गम् अथाक्रम्य चान्द्रं मार्गम् अतीत्य च
ध्रुवमार्गोत्तरं गत्वा साध्यानां मार्गम् एव च । सिद्धानां समतीत्योर्वीम् उल्लङ्घ्य स्वर्गमण्डलम्
ब्रह्मलोकान्तरे गत्वा तुषितानां च मण्डलम् । गोलोकं शिवलोकं च पितृलोकम् अतीत्य च
विदेहानां च देवानां दूरम् उत्तीर्य दूरगम् । दूराद् दूरतरं गत्वा किञ्चिद् रुद्धा बभूव सा
पश्चाद् आलोकयाम् आस समतीतं नभस्तलम् । यावन् न किञ्चिच् चन्द्रार्कताराद्य् आलक्ष्यते ह्य् अधः
तमस् स्तिमितगम्भीरम् आशाकुहरपूरकम् । एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम्
तद् देवि भास्करादीनां क्वाधस् तेजो गतं वद । शिलाजठरनिस्स्पन्दं मुष्टिग्राह्यं तमः कुतः
एतावतीम् इमां व्योम्नः पदवीम् आगतासि भोः । अर्कादीन्य् अपि तेजांसि यतो दृश्यन्त एव नो
यथा महान्धकूपाधः खद्योतो नावलोक्यते । पृष्ठगेन तथेहातो नाधस् सूर्यो ऽवलोक्यते
अहो नु पदवीम् एतां दूराम् आवाम् उपागते । सूर्यो ऽप्य् अधो ऽणुकणवन् न मनाग् अपि लक्ष्यते
इत उत्तरम् अन्या स्यात् पदवी का नु कीदृशी । कथं च पातनी भव्या कथ्यताम् इति देवि मे
इत उत्तरम् अग्रे ते ब्रह्माण्डपुटकर्परम् । यस्य वज्रादयो नाम धूलिलेशास् समुत्थिताः
इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् । भ्रमर्याव् इव शैलस्य कुड्यं निबिडमण्डलम्
अक्लेषेनैव ते तस्मान् निर्गते गगनाद् इव । निश्चयत्वं हि यद् वस्तु तद् वज्रगति नेतरत्
निरावरणविज्ञाना सा ददर्श ततस् ततः । जलाद्यावरणान् पारे ब्रह्माण्डस्यातिभासुरान्
ब्राह्माद् अण्डाद् दशगुणं तोयतत्त्वं व्यवस्थितम् । आस्थितं वेष्टयित्वा तत् त्वग् इवाक्षोटपृष्ठगा
तस्माद् दशगुणो वह्निस् तस्माद् दशगुणो ऽनिलः । ततो दशगुणं व्योम ततः परमम् अम्बरम्
तस्मिन् परमके व्योम्नि मध्याद्यन्तविकल्पनाः । न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव
केवलं विमलं शान्तं तद् अनादि गतभ्रमम् । आद्यन्तमध्यरहितं महत्य् आत्मनि तिष्ठति
आकल्पम् उत्तमबलेन शिवापतिश् चेत् तस्मिन् बलाद् गरुडकेतुरथोत्पतेश् चेत् । तद्ध्यानतो ऽवलभते विमले ऽम्बरे ऽन्तम् आकल्पम् एकजवगाम्य् अथ मारुतो ऽपि
पृथिव्यप्तेजसाम् अत्र नभस्वन्नभसोर् अपि । यथोत्तरं दशगुणान् अतीत्यावरकान् क्षणात्
ददर्श परमाकाशं तत् प्रमाणविवर्जितम् । तथा ततं जगद् इदं यथा तत्राणुमात्रकम्
तादृक्षावरणान् सर्गान् ब्रह्माण्डेषु ददर्श सा । कोटिशस् स्फुरिता व्योम्नि त्रसरेणुर् इवातपे
महाकाशमहाम्भोधौ महाशून्यत्ववारिणि । महाचिद्द्रवभावोत्थान् बुद्बुदान् अर्बुदक्रमान्
कांश्चिद् आपततो ऽधस्तात् कांश्चिच् चोपरि गच्छतः । कांश्चित् तिर्यग्गतीन् अन्यान् स्थितान् स्तब्धान् स्वसंविदा
यत्र यत्रोदिता संविद् येषां येषां यथा यथा । तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा
न चैव तत्र नामोर्ध्वं नाधो न च गमागमाः । अन्यद् एव पदं किञ्चिद् अस्मद्देहागमं हि तत्
उत्पद्योत्पद्यते तत्र स्वयं संवित् स्वभावतः । स्वसङ्कल्पैश् शमं याति बालसङ्कल्पजालवत्
किम् अधस् स्यात् किम् ऊर्ध्वं स्यात् किं तिर्यक् तत्र भासुरे । इति ब्रूहि मम ब्रह्मन्न् इहैव यदि न स्थितिः
ससर्वावरणान्य् अत्र महत्य् अन्तविवर्जिते । ब्रह्मणो ऽण्डानि भासन्ते व्योम्नि केशोण्डुको यथा