एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे । एषा मे जङ्गले धेनुर् दोघ्द्री चरति शाद्वलम्
गृहे ऽवसन्नं दाहाय रूक्षं क्षारविधूसरम् । स्वं देहम् इह पञ्चाख्यं पश्येमं प्रघनं मम
तुम्बीलताभिर् उग्राभिस् तृष्णाभिर् इव वेष्टितम् । महानसस्थानम् इदं मम देहम् इवापरम्
एते रोदनताम्राक्षा बन्धवो भुवि बन्धनम् । अङ्गदार्पितरुद्राक्षा आहरन्त्य् अनलेन्धनम्
अनारतं शिलाकच्छगुच्छाच्छोटनकारिभिः । तरङ्गैस् तुङ्गिताकारस्पृष्टतीरलतादलैः
शीकराकीर्णपर्यन्तशाद्वलस्थलवेल्लितैः । शिलाफलहकास्फालफेनिलोत्फालशीकरैः
तुषारीकृतमध्याह्नदिवाकरकरोत्करैः । फुल्लपुष्पोत्करासारप्रदानोत्कतटद्रुमैः
विद्रुमैर् इव सङ्क्रान्तफुल्लकिंशुककान्तिभिः । व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः
उह्यमानफलापूरसुव्यग्रग्रामबालया । महाकलकलावर्तसक्तया ग्राम्यकुल्यया
वेष्टितस् तरलास्फालजलधौततलोपमः । घनपत्त्रतरुच्छत्त्रच्छायासततशीतलः
अयम् आलक्ष्यते पुष्पलतावलनसुन्दरः । ललद्गुलुच्छकच्छन्नगवाक्षो गृहमण्डपः
अत्र मे संस्थितो भर्ता जीवाकाशलवाकृतिः । चतुस्समुद्रपर्यन्तमेखलाया भुवः पतिः
आस्मृतं पूर्वम् एतेन किलासीद् अभिवाञ्छितम् । शीघ्रं स्याम् इव राजेति तीव्रसंवेगधर्मिणा
दिनैर् अष्टभिर् एवासौ तेन राज्यं समृद्धिमत् । चिरकालप्रत्ययदं प्राप्तवान् परमेश्वरि
अत्रासौ भर्तृजीवो मे गृहे व्योम्नि स्थितो नृपः । अदृश्यः खे यथा वायुर् आमोदो वा यथानिले
इहैवाङ्गुष्ठमात्रान्ते तद् व्योम्नीव पदं स्थितम् । मद्भर्तृराज्यं मम तु गतं योजनकोटिताम्
आवां खम् एव तत् खं च भर्तृराज्यं ममेश्वरि । पूर्णं सहस्रैश् शैलानाम् अहो मायेयम् आतता
तद् देवि भर्तुर् निकटं पुनर् गन्तुं ममेप्सितम् । तद् एहि तत्र गच्छावः किं दूरं व्यवसायिनाम्
इत्य् उक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् । विहङ्गीव तया सार्धं पुप्लुवे ऽसिनिभं नभः
भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् । नारायणाङ्गसदृशं भृङ्गपृष्ठामलछविम्
मेघमार्गम् अतिक्रम्य वातस्कन्धावनिं तथा । सौरं मार्गम् अथाक्रम्य चान्द्रं मार्गम् अतीत्य च
ध्रुवमार्गोत्तरं गत्वा साध्यानां मार्गम् एव च । सिद्धानां समतीत्योर्वीम् उल्लङ्घ्य स्वर्गमण्डलम्
ब्रह्मलोकान्तरे गत्वा तुषितानां च मण्डलम् । गोलोकं शिवलोकं च पितृलोकम् अतीत्य च
विदेहानां च देवानां दूरम् उत्तीर्य दूरगम् । दूराद् दूरतरं गत्वा किञ्चिद् रुद्धा बभूव सा
पश्चाद् आलोकयाम् आस समतीतं नभस्तलम् । यावन् न किञ्चिच् चन्द्रार्कताराद्य् आलक्ष्यते ह्य् अधः
तमस् स्तिमितगम्भीरम् आशाकुहरपूरकम् । एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम्
तद् देवि भास्करादीनां क्वाधस् तेजो गतं वद । शिलाजठरनिस्स्पन्दं मुष्टिग्राह्यं तमः कुतः
एतावतीम् इमां व्योम्नः पदवीम् आगतासि भोः । अर्कादीन्य् अपि तेजांसि यतो दृश्यन्त एव नो
यथा महान्धकूपाधः खद्योतो नावलोक्यते । पृष्ठगेन तथेहातो नाधस् सूर्यो ऽवलोक्यते
अहो नु पदवीम् एतां दूराम् आवाम् उपागते । सूर्यो ऽप्य् अधो ऽणुकणवन् न मनाग् अपि लक्ष्यते